________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
९६३ संज्ञकानां प्राणमाचक्षते कुशलाः। प्रत्यक्षफलदर्शनात् तदिन्धना ह्यन्तरग्नेः स्थितिस्तत् सत्त्वमूजयति। तच्छरीरजङ्गमानां वृक्षादिमनुष्यादीनां चेतनाचेतनानां मध्ये प्राणिसंज्ञकानां चेतनानां माणं प्राणहतुवात्। आयुर्घ तमितिवत्। वृक्षादयो हि प्राणिनोऽपि न लोके प्राणिसंशयोच्यन्ते। तस्मादुक्तं प्राणिसंज्ञकानामिति। न च तेषाम् अपीष्टवणेगन्धरसस्पर्शपृथिवीरसपानेनैवाप्याय्यन्ते प्राणा न तु विहितानपानेन विधिर्हि शास्त्रेऽन्नपानयारुपदिष्टः न तु यस्य यथानपानाभ्यां शरीरमविकलम् आप्याय्यते स तस्यान्नपानविधिः । भवतु वा न चास्ति वृक्षादीनामचेतनप्राणिनाम् अन्नमिति। बुभुक्षमाणानां प्रथमतोऽन्नपानीययोरिष्टवणेदर्शनेन मनसा श्रद्धेयत्वं स्यात् । श्रद्धापूर्वकान्नपानयोद्यतत् प्राणहेतुखमिति ख्यापितम् । एवं गन्धरसस्पर्शानामपि तत्रोपयोगित्वं ज्ञेयम्। पूर्व खल्वन्नं पानं वा दृश्यते ततो गन्ध उपलभ्यते ततः स्पश्यते ततश्च रस्यते रस इति क्रमेण वणेगन्धस्पशरसमित्यानुपूर्वी युज्यमानमपि स्पर्शस्य किश्चिदनिष्टत्वेऽपि न प्राणहेतुत्वहानिराहारस्य भवति । रसस्य खनिष्टखे बहुतरमाणहतुहानिरन्नपानयोरिति स्पर्शात् प्राधान्यख्यापनार्थे रसस्य पूध्वमुपादानं कृतमाचार्येण । पञ्चानां शब्दस्पर्शरूपरसगन्धानामर्थानामन्नपानीयद्रव्येषु वृत्तावपि शब्दस्य इष्टलानिष्टखयोरन्नपानस्य प्राणहतुखे तूपयागिखाभावान्नापादानं कृतमिति । ननु कुता हतोः कुशलास्तथाविधमन्नपानं प्राणमाचक्षते इति ? अत उच्यते, प्रत्यक्षफलदर्शनात् । अत्रान्नपानयोभुक्तपीतयोलोके प्रत्यक्षेण प्राणजनकवं दृष्टा कुशलास्तथाविधान्नपानं प्राणमाचक्षते इति । ननु तथाविधान्नपानयोः प्राणद्धिः फलं कथं स्यादिति ? अत उच्यते । तदिन्धनेत्यादि । तत्तथाविधान्नपानं लोकिकामिस्थितिकारणमिन्धनमिवेन्धनं यस्या अन्तरग्निस्थितेः सा 'प्राणिसंज्ञकानाम्' इति वचनं स्थावरप्राणिप्रतिषेधार्थम्, वृक्षादयो हि वनस्पतिवर्गानुकारोपदेशात शास्त्रे प्राणिन उक्ताः, न तु लोके प्राणिसंज्ञकाः, किं तर्हि ? जङ्गमा एव ; इह च मनुष्यस्यैव अधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतया आहारकथनं मनुष्यव्यतिरिक्तऽपि प्राणिनि भाहारस्य प्राणजनकत्वोपदर्शनार्थम् ; प्राणमिति प्राणहेतुत्वात्, यथा-"आयुर्घतम्"। अथ कथं तत् प्राणमाचक्षत इत्याह-प्रत्यक्षफलदर्शनादिति, प्रत्यक्षेणैव ह्याहारं विधिना कुर्वतां प्राणा भनुवर्तन्त इति तथा निराहाराणां प्राणा न ह्यवतिष्ठन्त इति श्यत इत्यर्थः, प्रत्यक्षशब्दश्चेह स्फटप्रमाणे वर्तते, यतः प्राणानामन्न कार्यत्वमनुमानगम्यमेव ; अन्नकार्यत्व एव प्राणानां हेतुम्
For Private and Personal Use Only