________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तविंशोऽध्यायः। अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः,
इतिह स्माह भगदानादयः ॥ १॥ इष्टवर्णगन्धासस्पर्श विधिविहितमन्नपानं प्राणिनां प्राणिगङ्गाधरः-अथाहारद्रव्याणां प्रभेदरससहचरितगुणकम्मेवीर्यविपाकप्रभाबान् सामान्यत उक्त्वा प्रतिद्रव्यं विशेषत उपयोगार्थ वक्तु मन्नपानविधिम् अध्यायमारभते-अथात इत्यादि। अन्नमशनखादनं चवणसामान्यात् । पानं पानलेहरूपं द्रव्याणां गलाधःकरणसामान्यात् । अन्नञ्च पानश्चान्नपाने विधीयेते अस्मिन्ननेन वेति अन्नपानविधिरिति कश्चित्, तन्न, यतोऽस्मिन्नध्यायेऽनमानयोविधानमस्ति । तस्मादन्नपानयोविधियतः उपदेशतः सोऽनपानविध्युपदेशस्तमधिकृत्यकृतोऽध्याय इति । अन्नपान विधिमत्र तद्धितलुक् । सव्व पूवेवव्याख्यातव्यम् ॥१॥
गङ्गाधरः-कोऽसावन्नपानविधिरुपदेष्टव्य इति ? अत उच्यते-इष्टेत्यादि । इष्टाः प्रायेण सर्वजनाभिमता वर्णगन्धरसस्पर्शा येषां द्रव्याणां तेषां विधिना इन्द्रियोपक्रमणीयोक्तेन नारत्नपाणिरित्यादिना वक्ष्यमाणरसविमानोक्तन तदाहारविधानमित्यादिना विहितं कृतमन्नश्च पानश्च प्राणिनां स्थावर
चक्रपाणिः-सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्रायोपयोगिद्गव्यस्य विशिष्टगुणकर्मकथनार्थमन्नपानविधिरध्यायोऽभिधीयते ; अत्रोत्पन्नस्य छप्रत्ययस्य लुक ; अत्रान्ने काठिन्यसामान्यात् खाद्यम्, पाने च द्रवत्वसामान्यात् लेह्यमवरुद्धं ज्ञेयम् ; अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यतेऽनेनेत्यन्नपानविधिः, द्रव्याणां गुणकर्मकथनमेव चानपानविधिः, यतः तद्धि ज्ञात्वान्नपानं विधीयते ॥१॥
चक्रपाणिः-किं तदन्नपानं करोतीत्याह-इष्टेत्यादि। इटमभिमतं हितञ्च, किंवा इट. मिति प्रियं हितञ्च, विरोधि ह्यप्रियम् ; हितन्तु विधिविहितशब्देनैव प्राप्यते ; विधिर्वक्ष्यमाणरसविमाने-“तदेतदाहारविधानम्' इत्यादिग्रन्थवाच्यः ; तथेन्द्रियोपक्रमणीये च "नारत्नपाणिः" इत्यादिनोक्त विधानं, तेन विधिना विहितं विधिविहितम् ; अत्र वर्णादिषु शब्दाग्रहणमनपाने प्रायःशब्दस्याविद्यमानत्वात् ; वर्णादिषु यद्यत् प्रथममन्नपाने गृह्यते, तत्तत् पूर्वमुक्तम् ; रसस्तु मर्शस्य पश्चाक्गृह्माणोऽपि प्राधान्यख्यापनाथ स्पर्शस्याने कृतः ; प्राणिनामित्यनेनैव लधेऽपि
For Private and Personal Use Only