SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । रूपः तत्वभावत्वात्। नापि ज्योतिर्भवति अरूपत्वात् । ज्योतिस्तुरूपवत् । नापि च जलं रसद्रवत्वाभावात् । जलञ्च रसवद्वञ्च । नापि क्षितिरगन्धत्वात् । क्षितिस्तु गन्धवती। नाप्यात्मा चैतन्याहेतुत्वादात्मा हि चैतन्येहेतुः। न च मनोऽर्थाग्रहणान्म नोह्यर्थं ग्टह्णाति । नापि काल चक्रवभ्रमणखभावेन सर्बकलनाभावादिति। चेतनाचेतनविशिष्टद्रव्याणां प्राणिनामप्राणिनां खादिभ्यश्च विशेषोगुणविशेषेण कविशेषेण च विशेषात् । खादिभ्यो लोकानां चेतनानामचेतनानाञ्च विशेषो यथा प्राकाशं निषक्रियमपि भूतान्तरयोगेन तक्रियोपचरितक्रियावत् । आकाशात्मकानि च द्रव्याणि मार्दवशौषिर्य लाघवकराणि। वायुः क्रियावान् वायव्यानि च रौक्ष्यग्लानि विचार वैशद्यलाधवकराणि । ज्योतिश्च सक्रियं तदात्मकानि पुन व्याणि दाहपाक प्रभाप्रकाशकराणि। पापस्तु सक्रियाः श्राप्यानि तु द्रव्याण्युपक्ले दस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि। पृथिवी च क्रियावती पार्थिवानि द्रव्याणि पुनरुपचयसन्धानधातु व्यूहगौरवस्थैर्य कराणि भवन्त्याकाशीयादिगुणप्रभावैः । परन्तु पृथिव्यगुणवाडल्यान्मधुर इति सुश्रुतवचनात् For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy