________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
बुद्धिमांश्च चेतनावांचाहकारवांश्च प्रयत्नवांश्च भवति। मनस्तु रजस्तमोऽतिनिकषण सत्त्वगुणबडलात्मकं परमसूक्ष्मं च। तच्च लोके विविध शुद्ध राजसं तामसच तेषान्तु बयाणामपि सन्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च शरीरं ह्यपि सत्त्वमनुविधीयते सत्त्वञ्च शरीरम् ।
तत्र कतिचित् सत्त्वभेदाः साहश्यान्निर्देशन । सप्तविध शुद्धं ब्राह्मवादिभेदात् । षड् विधं राजस मासुरादिभेदात् । त्रिविध तामसं पाशवादिभेदादिति वक्ष्यते महति गभीवक्रान्त्यां शारीरे। कालोपि निक्रियो निर्माणः परममहत्परिमाणोपि कार्य गुण गुर्बादिगुणाभावात् स च लोके सम्बत्सरः शीतोष्णवर्ष लक्षणः । एवं दिगपि खादिभ्योऽतिरिक्ता प्रकृतिभूता वैकारिकादहकारादाकाशसाधिदेवता दिक् क्रियागुण व्यपदेशाभावादसती न च नास्तिनचास्तीत्युच्यते लोकसर्गवभिव्यज्यते प्राच्यादिरूपेण । नचायमाकाशोऽस्पर्शत्वात्। स्पर्शववाभावेऽपि इति इदमिति यतः सा दिगिति लिङ्गात् ।
न च वायुरस्पर्शत्वात् वायुः पुनः स्पर्श वान् नी
For Private And Personal Use Only