________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्
हवारं जनयनात्मा तेनाहङ्कारेणोपचर्यमाण: सार त्त्विकाहङ्कारवान् भवन् वैश्वानरो भवति योहि जागरितावस्थाया मस्मिन् पुरुषे वहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिसुखः स्थलभुगमवति । इत्येवं धमाद्यज्ञानवानज्ञानरूपाहतारवयवांश्चात्मा भवति सात्त्विकाहङ्कारवान् सन् तैजसाहकारमाश्रित्य मनसि सुखायवासना दुःखाय देषं जनयति । ततश्च तयेच्छया देषेण चोपर्यमाणः सुखकामी दुःखद्देषी भव त्यात्मा। ततश्वेच्छया यथा सुखं भवति तथा मनसि भतसर्गाय प्रत्तिं दुःखञ्च यथा न भवति तथैवान्यथाभावाय हषेण निवृत्तिं जनयन्नात्मा प्रतिनित्त्याख्य प्रयत्नेन तेनोपचर्यमाणः प्रयत्नवान् भवति । तेन च प्रयत्नेन खं वायुं ज्योतिरपोभर्मि क्रमेण सृजति।
तैश्चेन्द्रियाणि पञ्चचार्थान् सृजन् कोष कारकीटवत् तदष्टादशतत्त्वमय सूक्ष्म देहरूपकोषेण खयमारतः सगुणकर्मणा वायुनाऽभिर्यमाणः प्राक्तनवरूपेण देवनगदियोनिष्वदुष्टायां योनावदुष्टञ्च गर्भाशय मनु प्रविण्यादुष्ट शुक्र शोणितसंयोग मेत्य तन्मध्यस्थानमास्थायाण ना कालेन मनसा पूर्वतरमाकाशं सजत्येवं क्रमेण वायादिकं निम्माय क्रमेण शौकशौनितिकाहारज रसमयानि भूतानि मिलि
For Private And Personal Use Only