________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
ग्टहीतं तत्त खल्वायुर्लक्षणो यदिन्द्रियग्रहणं तदन्तशेतनानां रक्षादीनां जीववतां प्रत्यक्षाणां वहिरिन्द्रियाभावेप्य भ्यन्तरेन्द्रिय वत्त्वख्यापनार्थ लोकत्वञ्च तेषां सत्त्वात्मशरीरवत्त्वात् । यद्यायुलक्षणे इन्दियग्रहणं नाकार्षीत् कथं वृक्षादीनां जीवनदर्श नेनाभ्यन्तरेन्द्रियवत्त्वानुमानमभविष्यत् । इन्द्रियग्रहणेन तु तेषां जीवनदर्शनेनाभ्यन्तरेन्द्रियमनुमीयते मनोग्रहणवत् । वाह्मप्रचरणवाभावात् तु रक्षादयो न पश्यन्ति न जिघ्रन्तीति। मनोग्रहणेन मनसोप्यनुमानं वृक्षादीनामात्मग्रहणेनात्मानुमानं भवति । जीवनलिङ्गात् । घटादीनान्तु जीवनलिङ्गाभावान्नात्मेन्द्रियमनसामनुमानं भवति । श्रात्मेन्द्रियमनोलिङ्गाभावात् । तस्माद्ब्रह्मादयः प्राणिनोपि वाह्यविषयग्राहक त्वाभावात स्थूल शरीरस्थमनसा सुखदुःखानुभवेपि तत्प्रतिकारार्थ नायुर्वदाधिकारिणो भवन्तीतिस्थापयितुमायुर्लक्षणे पृथगिन्द्रियमुक्तमिन्द्रियानुमेयायुर्हि वक्ष्यतेऽरिष्ठाधि कारे इति कश्चित् । वस्तुतस्तु सतपुरुषस्य परलोकगतस्य सूक्षादेहवतः सत्त्वेन्द्रियादिमत्त्वेप्यायुष्मत्ववारणार्थ सूक्ष्मदेहव्यवच्छेदार्थ तब शरीरपदेन स्थूल देह परिग्रहार्थमिन्द्रियं पृथगुक्तम् । अत्र तु मतस्यापि लोकत्व
For Private And Personal Use Only