________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । सत्त्वमात्माशरीरञ्च वयमेतत्तिदण्डवत् । लोकस्तिष्ठतिसंयोगात्तत्र सबै प्रतिष्ठितम ॥ स पुमांश्चेतनं तच्च तच्चाधिकरणं मतम् । वेदस्यास्य तदर्थ हि वेदोऽयं सम्प्रकाशितः ॥
साम्यवैषम्य प्रयोजनमायुर्वेदिकं निःश्रेयसाधिगमप्रयोजनञ्चवैशेषिकं षट्पदार्थज्ञाने नै वसिवाति तथा षोडश पदार्थ ज्ञानेनैव निः श्रेयसाधिगमः सिय तीति शेषाः पदार्था नोक्ता आयुर्वेदवैशेषिकान्वीक्षिकोषु न तु प्रतिषिड्वा इति न कपिल वचनं विरुयते। सामान्य विशेषवदिति वचनेनैकत्वं द्रव्य गुणकर्मणां प्रतिषिई न द्रव्यमेकविधं न गुण एकविधो न च कर्मे कविधमिति । __ अथ द्रव्यसामान्योदाहरणमायुर्वेद क्रियाधिकरणोपदेशेन दर्शयति ।
सत्त्वमात्मे त्यादि । सत्त्वं सत्त्वसंज्ञकं मनः । आत्मा सत्त्वादिविगुणलक्षणमव्यक्तं नाम चतुर्विशं तत्त्वम् । शरीरं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं तच्च शुक्रशोणितादिसम्भूतं स्थू लं ग्टह्य ते नवाहकारिकेन्द्रियादिमतसूक्ष्मं क्रियानधिकरणा
For Private And Personal Use Only