________________
Shri Mahavir Jain Aradhana Kendra
३३०
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता ।
गुणत्वजातिमत्त्वाद्रूपादीनां रसत्ववारणाय गुणत्वावान्तरेति । मधुरादिषु प्रतिरसं तथातोन्द्रियरसे चाव्याप्तिवारणाय जातिमत्त्वमिति । प्रत्येक रसस्य जातिमत्त्वेऽपि मधुरत्ववन्तया ग्रहदशायां जातिमत्त्वाग्रहेऽप्रसङ्गसम्भावात् । जातिमत्त्वन्तु वृत्तिनियामकसम्बन्धेनैव बोध्यम् । तेन ज्ञेयत्वादिना सम्बन्धेन नातिप्रसङ्ग इति बोध्वम् ।
1
नेदं साधुव्याख्यानम् । तन्मात्त्ररसोऽतीन्द्रिय: साधारणभूत एवाव्यक्तो गुणत्वावान्तरसामान्यभतजातिमत्त्वाभावादनेन लक्षणेनालचितः । एकत्वात्तस्य गुणत्वावान्तरसामान्याभावात् । न हि मधुरादिगतस्रामान्यमस्यास्ति मधुरादयो हि रसप्रभेदा रसत्वसामान्यवन्त एष तु न रसप्रभेदः साधारणत्वात्। तस्माट्रसनेन्द्रियग्राह्यो यो मधुरादिरस स्तत्तद्दृप्तिगुणत्वावान्तरसामान्यभूत जाति र्न तन्मात्वर से तस्मात्तन्मात्ररसो नैतल्लचणलचिन इति अतीन्द्रियर से ऽप्रसङ्गसङ्गाव एव नतु निवारितः स्यात् । अस्माकं मते नेदं तन्मात्ररसलक्षणमिति तुल्यत्वादिष्टं चितिस्तथेत्युक्त्या तस्य व्यावृत्तत्वख्यापनादस्य रसनार्थो रस इति लक्षणस्या लक्ष्य स्तम्मावरस इति ज्ञापितम् । तस्माट्र्सनार्थो रस इत्यस्य लचणस्य । रसनेन्द्रिय
For Private And Personal Use Only
-