________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
३२१
त्वात् । सर्वपुरुषाणामशक्यत्वेन रसायनादेर्जातारिष्टमसाध्यमेवेत्याहुः।
नन्वेतावतैव वातादीनां खख गुणविपरीतगुणद्रव्यैः प्रशमोपदेशेन विविधशिष्याणां न व्यवसायो भवति अतिसूक्ष्मतमत्वाद्रव्यगुणानामित्याशङ्कयाह। ___ भूयशेत्यादि । अतो वातादीनां स्वखरण विपरीतगुणद्रव्यैः प्रशमोपदेशादन्तरमन्नपानादिके यथाद्रव्यं द्रव्यमनतिक्रम्य गुण कम्मे गुणाञ्च कम्याणि च तत् भूयो वहतमं च प्रवक्ष्यते प्रतिद्रव्यं विस्तरेण गुण कम्ये प्रवक्तव्य मित्यर्थः ।
नम्वेतावतैव वातादीनां खखगुण विपरीतगुणद्रव्यैः प्रशमोपदेशेन युक्तिव्यपाश्रयभेषजं किं समाप्यते इति शङ्कायां यथाद्रव्यं गुणकर्मोपदेष्ट व्यत्वे व्यवस्थिते द्रव्याणां गुण काश्रयत्वेन कर्तृत्वेनच सत्यपि प्राधान्ये गुणकम्मापेक्षया गुणकर्मीभ्यामेव शकिरूपाभ्यां फलमाधनयोग्य त्वादादो गुणकर्मणो गुणानां प्राधान्यादुपदेशे कर्तव्ये गुर्वादिगुणा. पेक्षया शोतादिगुणस्य वीर्य संज्ञया प्रधान्येऽपि शीतादिवीर्य संज्ञकस्य गुणस्य प्रायेण प्रतिनियतरसत्वासोपदेशो व्यवस्थीयते।
For Private And Personal Use Only