________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२२
चरकसंहिता |
अत्र केचिदाचार्य्या ब्रुवते । द्रव्यं प्रधानम् । कस्मात् व्यवस्थितत्वात् । विशेषेणावस्था | दू ह खलु द्रव्यं व्यवस्थितं न रसादयो यथामे फले ये रसादयस्ते पक्के तु न सन्ति । ननु चेत् व्यवस्थितत्वं स्वरूपेणावस्थानं तच्च कषायादिकल्पितत्वदशायां नास्तीति व्यभिचार इति चेत्तदा द्रव्यं प्रधानं नित्यत्वात् । नित्यं हि द्रव्यमनित्या गुणाः यथा कल्कादि प्रविभागः स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति । ननु नित्यत्वमविनाशित्वं स्वरूपानुच्छेदो वा तथात्वन्तु न कल्कादित्वदशायामिति व्यभिचर्य्यते हेतुरिति चेन्न द्रव्यं प्रधानं खाजात्यावस्थानात् । यथाहि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणीति अतः खारम्भकद्रव्यजातीयत्वेनानुवृत्तत्वं खारम्भक द्रव्यजातीयत्वानपायत्वं वा स्वभावसंसिद्धलक्षणं वा खाजात्यावस्थानमिति । ननु मधुराम्नलवणादीनामपि रसानां पाञ्जभौति कत्वेन मधुरत्वादिनाग्रहात् पृथिव्यम्व्वादिगुणवाडल्य ग्रहेण पञ्चेन्द्रियग्रहणमुपचर्यते इति चेन्न द्रव्यं हि प्रधानमाश्रयत्वात् । द्रव्यमाश्रिताहि र सादय इति ।
ननु रसादीना माश्रयत्वेऽपि द्रव्यस्य रमादि
For Private And Personal Use Only