________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
५८२
सर्वं यदा पश्यति तदा सर्व्वमाच्छोकसागराद्दीतो भवति । रसोह्येष ईशः । रसं ह्येवायं लब्ध्वानन्दी भवतीत्यर्थः ।
एष भोक्ता भतात्मा द्विविधः प्राज्ञश्च उक्तो मा ण्डुक्योपनिषदि वैश्वानरतैजसभेदात् ।
अयमात्मा ब्रह्म सोऽयमात्मा चतुष्यात् । तत्र जागरितस्थानो वहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थलभक् वैश्वानरः प्रथमः पादः । स्वप्नस्थानोऽन्तः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तयुक् तैजसो द्वितीयः पादः । यत्र न कञ्चनकामं कामयते नच कञ्चन खप्त ं पश्यति सुषुप्तः । सुषुप्तस्थान एकीभत श्चेतोमुख एवानन्दमयो ह्यानन्दभुक् प्राज्ञ स्तृतीयः पादः एष सर्वेश्वर एष सर्व्वान्तर्याम्यष मौनिः सर्व्वस्य योहि प्रभवाप्ययो भूतानाम् । न वहिः प्रज्ञं नान्तः प्रज्ञं नोभयतः प्रज्ञं नाप्रज्ञ न प्रज्ञानघनमव्यवहार्य व्यपदेश्यमचिन्त्यमलक्षण मेकात्मप्रत्ययसारं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । एष आत्मा स विज्ञेयः इति । नन्वयं वैश्वानरः किमात्मकः किंसप्ताङ्गश्चेति उच्यते यथोतां कान्दग्योपनिषदि प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भालेबेयोजनः शार्काराची
For Private And Personal Use Only