________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१.
चरकसंहिता |
चात्मगुण एव बुद्ध्यादिरिबोच्यते तदा निर्विकारत्वमात्मना नोपपद्यत इत्यत आह ।
द्रष्टा पश्यति हि क्रिया इति । सुखदुःखाश्रयौ भूतात्मा जीवात्माऽसौ ताभ्यां परः श्रेष्ठस्वव्यक्तमात्मा चेत्रज्ञः सत्त्वशरीराभ्याञ्च परो भिन्नो निर्विकारः स हि सत्त्वभूतगुणेन्द्रियैः चैतन्ये कारणं नित्यः स हि द्रष्टा न क्रियाफलभोक्ता क्रियाहि पश्यति ।
यथोक्तमाथर्व्वणिक मुण्डकोपनिषदि । हा सुपर्णा सयुजा सखाया समानवृक्षं परिषखजाते । तयोरन्य: पिप्पलं स्वाद्दत्ति अनश्नन्नन्योऽभिचाकशीति । समानवृक्षे पुरुषो निमग्नो अनीशया शोचति मुामानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
इति श्लोकद्वयं व्याख्यायते यथा । द्दा हौ सुपर्णा सुपर्णो सयुजा मयुजौ सखाया सखायौ एवम्भूत सन्तौ समानमविशेषितमेकं वृक्षमिवोच्छेदमामान्याच्छरीरं वृक्षं परिषखजाते परिष्वक्तवन्तौ । अयं हि शरीरवृक्ष ऊर्द्धमूलोऽधः शाख एषो ऽश्वत्यः सनातनः क्षेत्रसंज्ञः सर्व्वप्राणिक फलाश्रयः । तं प रिबन्तौ यौ तयोर्द्वयो मध्येऽन्य एकः प्रत्यगात्मा शरीरं वृचमाश्रितः पिप्पलं की निष्पन्नं सुखदुःख
For Private And Personal Use Only