________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८२
चरकसंहिता !
मोहावरणात्मकसमतमसोपहितत्वे
उच्यते । मनः सत्त्वसंज्ञकमेकं सूक्ष्मचाचेतनं क्रियावत् । आत्मा पुनरेकः सूक्ष्मश्चेतनच निर्गुणो निष्क्रियश्च लौकिक गुणकर्माभावात् । समसत्त्वरजस्तमोगुणावलौकिका अलौकिक गुणवत्वान्न सगुणत्वं व्यवह्रियते । तस्मात् प्रकाशक सुखयोगकृत्सम सत्त्वेनोपहितत्त्वे नित्य चैतन्यवीटतिस्मृतिनिवृत्त्याख्यप्रयत्नसुखवान् रागात्मकप्रवर्त्तकसमरजः स्वत्त्वात् द ेषदुःखश्पून्यो नित्येच्छाप्रवृत्त्याख्य यत्नवान् । मोहनकदज्ञानचच्छक्तिमान् । एवं लक्षणोऽपि खरूपतो निर्लक्षणो निर्गुणो निश्क्रियो निर्बिकार आत्मा आदिसर्गे तु यद्विषमो भूत्वा महानभूल्लोकावस्थायां न चेदानीं शारीरावस्था यां पुनरिदानीञ्च नैवंविधो भवतीति शारीरावस्थाज्ञापनाय निर्गुणो निर्व्विकारो निष्क्रिय आत्मा सत्त्वशरीरसंयोगाद्दिशेषोपलब्धिरौपचारिक गुणविकारक्रियावानित्युपदिशति । तद्यथा स आत्मा शरीरसर्गे मनसा युज्यते गुणग्रहणाय । वक्ष्यते हि शारीरे । तत्र पूर्वं चेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्त्तते इति । मनः संयोगादात्मा चेतनत्वगुणेनाचेतनं मनश्वेतयत्यात्मतो मनसि चेतनोत्पद्यते। तथा चालो
For Private And Personal Use Only