SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ चरकसंहिता! इति । सत्त्वशरीरसङ्घातात् परमात्मा नास्ति यः स. वादियोगे चैतन्ये कारणमुच्यते।इति चैतन्ये कारणमिन्द्रियं सत्त्वशरीरसंघात घात्मावेति समाधत्ते। तव्यवस्थानादेवात्मसनावादप्रतिषेधः । स्यार्थः। सत्त्वशरीराभ्यां परस्यात्मनोऽस्तित्वस्याप्र. तिषेधः । कस्मात् । तदव्य व स्थानादेवात्मस झावात् । तस्य दर्शनविषयस्य रूपस्य स्पर्शनविषयस्य स्पर्शस्य च घाणविषयो गन्धो रसनविषयो रसः श्रवणविषयः शब्द इत्येवं विषयस्य व्यवस्थात एवात्मनः सङ्गावो. ऽस्तित्वं सिद्यति यद्येक मिन्द्रियं सर्व विषयं स्यात्तदात्मानमन्तरेण ज्ञानोत्पत्तिः शक्येत वक्तम् । तस्माद स्त्यात्मा सत्त्वभूतगुणेन्द्रियै शैतन्ये हेतुः सत्वशरीराभ्यां परः । सर्वशरीरसंघातव्यतिरिक्तात्मास्तित्व कारणान्तरञ्च । सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् । सत्त्वशरीर संघातव्यतिरिक्त प्रात्मास्ति। कस्मात् । सव्य दृष्टस्थेतरेण प्रत्यभिज्ञानात् । पूर्वापरयोविज्ञानयो रेक विषये प्रतिसन्धानं प्रत्यभिज्ञानम् । तमेवार्थमिदानीमहं जानामि यमर्थमज्ञासिषं स एवार्थोऽयमिति। तथाहि सव्येन चक्षुषा दृष्टस्यार्थस्य तदितरेण चक्षुषा दक्षिणेन प्रत्यभिदर्शनम् । यमेव सव्येन च For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy