________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२५३
वैषम्यप्रशमनेनैव सत्त्वशरीरसंयोगजस्यात्मस्थ विशे
चस्य प्रशमनात् । वक्ष्यते चात्र मानसो ज्ञान विज्ञान धैर्य्याति समाधिभिरिति ।
८
नंन्वात्मा तदैत्रैवं निर्विकारः स्याद्यदि सत्त्वशरीर सङ्घात्परःस्यात् नच सत्त्वशरीरसंघाताद्यतिरिक्तआत्माऽस्ति सत्त्वशरीर संघात एवात्मेत्याज्जर्नास्तिकाः । नेत्याहाक्षपादगौतमो यथा न्यायसूत्रम् । दर्शनस्पर्शनाभ्यासे कार्थग्रहणात् ।
अस्यार्थः । दर्शनेन्द्रिय स्प पूर्ण नेन्द्रियाभ्या में कार्थस्य रूपस्पर्शज्ञानेन ग्रहणाज्ज्ञानादात्मा सत्त्वशरीराभ्यां परःनतु दर्शनेन्द्रियस्य रूपज्ञानेन घटाद्यर्थज्ञानं स्पर्शनेन्द्रियस्य शीतलादिस्पर्श ज्ञानेन घटाद्यर्थज्ञानं यथाऽहमिमं घटं पश्याम्यहमेव स्पृशामीति सत्त्वशरीरसंघातात् परस्यात्मनो घटाद्येकार्थज्ञानं भवतीति सत्त्वशरोराभ्यां पर श्रात्माऽस्ति । तत्राजनस्तिकाः । न विषयव्यवस्थानात् ।
:
अस्यार्थः । दर्शन स्पर्शनाभ्यामेकार्थग्रहणं न रूप दर्शनेन्द्रियस्य परं विषयः स्पर्शनेन्द्रियस्य स्पर्शो हिमादि र्विषय इति विषयभेदव्यवस्थानात् । दर्शनस्पर्श नेन्द्रिययोरेव रूपस्पर्शज्ञानं तस्मात्तयो - श्चैतन्ये कारणत्वं न ह्यन्तरेण चैतन्यं बुद्धिरुत्पद्यते
२२
For Private And Personal Use Only