________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४८
चरकसंहिता।
मध्ये प्रात्माधिष्ठितसत्वाश्रिता बुद्धीच्छादयश्च निश्वष्टाः समवायिन एव हेतवो गुणाख्या भवन्ति पञ्चभताश्रिताच शब्दादय स्तथाविधा गुणा एव मनोमावाश्रितावणुत्वैकत्वे गुणौ तथेन्द्रियाश्रितो एवं पुनस्तथाविधसूक्ष्म शरीरिपुरुषः शुक्रशोणितमासाहारजरसगतानि पञ्चभूतानि च चतुविंशतिकेऽस्मि नराशिपुरुषे समवायिकारणीभूतद्रव्याणि तत्तदाश्रिताश्च बद्यादयः शब्दादयो गु/दयः परत्वादयश्च निश्चेष्टाः समवायिनो हेतव इति ते गुणाः । _अथात्र सूक्ष्म देहस्थानि सत्त्वेन्द्रियाणि समवायिकारणान्यपि पुरुषेऽस्मिन् नकिञ्चित् कार्यमारभन्ते परन्वषामस्य पुरुषस्योत्पत्त वुपपादकत्वमात्र नतु धातुत्वम् । वक्ष्यते हि शारीरे। अस्त्युपपादक सत्वसंज्ञक नामेति तथैतदभिप्रायेण च वक्ष्यते । खादय श्चेतनाषष्ठधातवः पुरुषः स्मृत इति ।
अत्र सूक्ष्मेन्द्रियाणा मनसो भौतिकवाभावेन खादिष्वन्तर्भावाभावाच्चेतना धातुश्चात्मा तत्राप्यन्त र्भावाभावाच्च । खादिषड् धातु कत्वं पुरुषस्येति कश्चितन्न शारीरे सत्वादीनां सूक्ष्म शरीरस्थानां कार्य तया स्थूलशरीरे मनःप्रभतेर्वक्ष्यमाणत्वात् रूपादि
For Private And Personal Use Only