________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२४७
दहङ्काराभ्यां विद्याविद्याभ्यां सहैकीभय सूक्ष्मदेहस्थ मनसि विद्याऽविद्याबुद्ध्यादिरूपेण परिणम्य - माना वर्त्तन्त े। तेच पुनः स्थूल शरीरस्थमनः स्थाभ्यां महदहङ्काराभ्यां विद्याविद्यारूपाभ्यां स्थूलाभ्यां सहैकीभूय विद्याविद्याबुद्धादिरूपेण परिणम्यमानाः स्थूलदेद्रस्थमनसि वर्त्तन्ते । ते चेन्द्रियार्थसन्निकर्षाज्जाताः श्रावण्यादिरूपेण व्यवदिष्टा अस्मिन्मनसि वर्त्तन्ते । इत्यत इन्द्रियेच शरोरेच वर्त्तन्ते इति प्रोक्तं ब्राह्मार्षादिकायसंसर्गाद्धि मनो ब्राह्मर्षादि भवति । तथा चात्मनश्चेतनात एषा चेतना मनसि । बुद्धितो विद्याविद्याधीष्टतिस्प्रत्यहङ्काररूपा बुद्धिः इच्छात इच्छा प्रयत्नतः प्रयत्नः सत्त्वात् सुख रजस्तमोभ्या दोषदुःखे भवतः । न च शब्दादय श्राकाशादिगुणा द्रवात्मनो बुद्धीच्छादयो गुणाः सहजाः । श्राका शादीनि हि भूतानि सगुणान्येव जातानि चात्मा तु नित्यएव निर्गुणो निष्क्रियः पूर्व्वम् । मनः सम्बन्धेन सक्रियः स चेतनादिकान् गुणान् मनसि जनयित्वा तश्चेतनादिभिरुपचरित एव सगुण उच्यते न तु वास्तवम् । स च समना आत्मा पञ्चभूतपञ्चबुद्धीन्द्रियाणि च सूक्ष्मदे हमारभमाणानि सूक्ष्मदेहिम: पुरुषस्य परलोकगमिद्रव्याणि भवन्ति तेषु च
।
For Private And Personal Use Only