________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४४
चरक संहिता।
बानतश्चात्मेति तथा ज्ञः साक्षीत्यच्यते इति नतु लौकिक गुणरूपचैतन्याख्य चेतनावान् न वा लौकिकगुणाख्यज्ञानवान् इत्यभिप्रायः । तथाहि चेतनाधातुः परप्रकाशकः खयं प्रकाशरूपः सत्त्वेन यदा युज्यते तदा सत्त्वक्रिययोपचर्यमाण: सक्रियः सन् मनसि चैतन्यं जनयति इति मत्वस्थ चैतन्य गुणनोपचय॑माण चेतनागुणवानयं जागरितस्थान इत्यु चते इत्येवं यावत् सत्त्वमात्माशरीरति वचने प्रपञ्चन व्याख्यातं तत्सर्वमत्रानुसतव्यम्। तस्मात् प्राणापानादि कार्यवदिच्छाद्देषादयो गुणा अप्थात्म लिङ्गत्वेनोका नत्वात्माश्रितगुणत्वेन। एवमात्मा सत्त्वेन युक्तो यदा यगुणं शब्दादिकं जिष्टक्षन् यच्छ्रवणादिवहिरिन्द्रियेण युज्यते तदा तदर्थम तदिन्द्रियस्य चैतन्यं जनयति इति तदिन्द्रियस्थचेतना गुणेनोपचर्यमाण स्तदिन्द्रियरेतनावानप्यात्मोच्यते तदाहि स वहिश्चेतनो भवतीन्येवं सगुण भ्रा. मोच्यते इत्येवं यावत् पूर्वोकप्रकारेण त्यादय इच्छादयश्च गुणा इन्द्रियस्था बोध्या मनःस्थाः प्र. त्यगात्म स्थाश्च । इच्छादयः प्रयत्नान्ताचेतनादयोऽहङ्कारान्ताश्च गुणा पात्मना जनिता मनसि त. थेन्द्रियेषु च प्रत्यगात्मनि चोपचाराद्र्थादिषु क्रिया
For Private And Personal Use Only