________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
गुणा शब्दादयः पञ्च इन्द्रियाणि पञ्च बुद्ध्याः श्रोतिः सह विशिष्ट चैतन्ये कारणं राशिपुरुषे चैतन्यं जनयति चैतन्यन्तु चेतनस्य भावश्चेत - नस्तु चेतनावान् चेतना तु स्वयं प्रकाशरूपा परमकाशिनी सत्त्वादियोगेन पुनरात्मना तल्लक्षणेन जनि तगुणत्रिशेषरूपा लौकिकी चेतना बुद्धिविशेष - मलिङ्गत्वेनोक्ता सा चात्र यया बुद्ध्या चक्षुषा पश्य न्नपिभावान् जातमात्रवालक इव न विजानाति कि मिदमिति । शब्दं शृखन्नपि न बुद्ध्यते किमिदमिति स्पृस्यं स्पृशन्नपि न वेत्ति किमिदमिति दुग्धादीन् पि वन्नपि न वेद किमिदमिति । जीवन्नपि पद्मादीनि नावगच्छति किमिदमिति । ययाच बुद्धिम्मेन्द्रियाणि स्वार्थेषु केवलं प्रयुङ्क्ते न तु तत्तदर्थविज्ञानं निष्पादयितुमलं भवति स्पन्दते क्रीड़ते च यथा वालकइत्येवं सति पुरुषे भवति । चेतनाधातुः खलु प प्रकाशक : प्रकाशक लक्षण: प्रकाशवानेव । यत्र हि यत्करणं यन्नवर्त्तते तत्र तत्कार्य्यमुत्पादयितुं स कथमलं भवति । यदि हि चेतनाधातुर्न चेतति कयमितराणि तर्हि चंतयेत् यथा यदि प्रकाशो न स्वयं प्रकाशते कथमितराणि प्रकाशयेत्तदिति चेतना स्वरू पतश्चेतनरूपैव सत्त्वादियोगजा चेतनेत्यत उक्तं चेतना
२४३
For Private And Personal Use Only