________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
इत्याह कश्विन्तन्न शरीरभिन्नत्वा मनसो मनोभिन्नत्वाच्छरीरस्य निर्व्विकारत्वापत्तौ तदुभयस्मात् पर इत्युक्तितोऽपि सुषुप्तौ तथाविधत्वादात्मन आनन्दमाभोगित्वात् । अन्येतु मनःशरीराभ्यां हि यस्मात् तु भिन्नक्रमे । परः श्रेष्ठ आत्मा तस्मान्निव्र्व्विकारः । निर्विकारस्तु यस्मात् तस्मान्मनः शरीराभ्यां श्रेष्ठत्मेति व्याचचते तन्न साध्यसमत्वादहेतुत्वात् । वस्तुतस्तु निरुक्तं धातुवैषम्यं दुःखश्चेति द्वयं विकारः आत्मेत्यस्य परइति विशेषणान्त्र खल्वात्मा केवल श्वेतनाधातु यं पुनरस्मिन् पुरुषे नान्तः प्रज्ञं न वहि: प्रज्ञ' नोभयतःप्रज्ञ न प्रज्ञ नाप्रज्ञ न प्रज्ञानवनमव्यपदेश्यमव्य हार्य्यमचिन्त्यमलक्षणमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं म न्यन्ते एष आत्मा स विज्ञेयः सोऽव्यक्तः सोऽध्यक्षः सोऽचरः सोऽनादिः स विश्वं सोऽव्ययः स परमत्मा द्रष्टारमुपद्रष्टा मोक्ता रमनुभोक्ता न दृष्टा न भोक्ता तर्हि किं सः । अव्यकमात्माचेत्रज्ञ इत्यादि पर्यायेण शारीरे वच्यमाणः समसत्त्वरजस्तमोऽनुप्रविष्ट स्वत्विगुणलक्षणः पुरुष एतस्मिन् सत्त्वात्मशरीरामकराशि पुरुषे भवत्यात्मा । स यत्राधिष्ठाने यस्या मवस्थायां च सम्प्रतिष्ठितो दृष्टा क्रियाणां भोक्ता
For Private And Personal Use Only
२३८