________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४.
चरकसंहितन
भोगे: सुखदुःखानां तदधिष्ठान स्तदवस्थ एवात्मात्मविनिरुच्यते । स एकोऽधिष्ठानायौगपद्यात् । बौणि खत्वस्याधिष्ठानानि हृदयं कण्ठो नेत्रञ्चेति तत्र ह. दयं नित्याधिष्ठानं तत्र तिष्ठन् विभुत्वाच्छषमधिठानमधितिष्ठतीति तिसञ्चावस्थाः सुषुप्तिः स्वप्नो जागरितश्चेति । सुषुप्तरवस्थाने प्रवर्त्तमाने सर्वाणीन्द्रियाणि भूतानि च सर्वाणि सर्वे चार्था मनसि लोय. ते मनचाहणारेऽहङ्कारो महत्तत्त्वे प्रज्ञाने तदा प्र. जामं धनीमवति प्रज्ञोपाहितचायं प्रज्ञानघनःसष्वपिति परमात्मनि शिवे सम्प्रतितिष्ठते परमोहात्मा रसोऽमतोऽमतरमाश्रयत्वात् । रसं ह्ये वायमानन्दय स्तमेनं लब्धा शुड्वसत्त्वमयेन प्रज्ञानेन मह. त्तत्त्वेन चेतसा मुखेनानन्द रसं भुजान आनन्दी भवतीति चेतोमुख आनन्द गानन्दमयः प्राज्ञ एष सषप्तिस्थानः । एष सर्वश्वर एषोऽन्तर्याम्यन्तर्यामिपरमात्माधिष्ठानात् । एष सर्वज एष योनि: सर्वस्य प्रभवश्वेष एषोऽप्यव्ययः ॥ १ ॥
पूर्वकतकर्मफलयोगादेष प्रतिबद्यमानः पुनमहतोऽभिव्य ज्यमानान्यहारादीनि ग्टहीत्वा स एव पुरुषः सन् प्रतिबुध्यते । प्रतिबुद्धश्चायं यदा मनसि लान्ते विषयेभ्यो निवर्तमानानोन्द्रियाणि
For Private And Personal Use Only