SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ चरकसंहिता । चेतनयोः शरीरमनसो वेतनपारतन्त्रप्रात् खलतकमणां फलभोगाय पुनः पुनरभ्यागमाञ्च न मनसो बुद्विरिति । परिशेषादात्मन एव बुद्धीच्छादयश्चेति । श्रच ब्रुवते । बुद्धेरिच्छादिजनकत्ववत् सुखदुःखजनकत्वे - नात्मगुणत्वे बुद्दिजन्येच्छाद्वेषयो स्तज्जप्रयत्नस्य तज्जेयोः सुखदुःखयोश्वात्मनि निवृत्तिर्नोपपद्यते शरीरे व्याधिसद्भावदर्शनात् व्याधिहि दुःखं तज्जनिकयोरिच्छाद्वेषजप्रवृत्तिनिवृत्त्योः प्रयत्नत्वं तज्जन्ययोर्बाङ्मनः शरीराणां प्रवृत्तिनिवृत्त्योश्च क्रियात्वमित्येतयो विशेषकौ तु चेतनाधिष्ठितानधिष्ठितशरीररूपौ नियमा नियमौ । चेतनाधिष्ठितशरीरे हि प्रवृत्तिनिवृत्ती प्रयत्न उच्येते चेतनानधिष्ठितशरीरे तु क्रियोच्यते तज्जमकाविच्छाद्वेषौ च शरीरे तज्जनिका बुद्धिरपि शरीरे वर्त्तते । द्रव्ये स्वगुणपरगुणोपलब्वेरिति चेन्न । रूपादीनां यावद्द्रव्यभावित्वेन शरीरस्य भूतविकारत्वात् । ननु घटादौ प्यासे पाकजगुणान्तरोत्पत्तेर्भौतिकेऽपि शरीरेऽभूतगुणा बुधादयो भवन्ति इति चेन्न पाकजानां गुणानां विरोधि गुण सिद्धेरिष्टापत्तेः । किञ्च शरीरविशेषगुणा नां शरीरव्यापित्वेन केशनखादिषु सुखदुःखाभावेन उणाभावाञ्च न बुद्धिः शरीरगुण इत्यत्राह । त्वक् For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy