________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३०
चरकसंहिता।
मास्पदरूपाणामारोग्याणामाश्रयोऽपि तथा शरीरं सत्त्वसंवञ्च चेतनाधिष्ठितं शरीरं मनश्चेतिदयम् । एतेनैतदुक्तं यत्वैव यो रोगस्तत्रैव तत्प्रशान्तौ तदारोग्यं नत्वन्यत्रेति शरीरमानसाश्रयत्वेऽपि रोगारोग्ययोरुप चारः पुरुषे बोध्यशेतनानुप्रत्तेः। कतिधापरुषीयेह्य क्तम् । न श्रेयो न सुखं नार्ति नगति - मतिर्न वाक्। न विज्ञानं न शास्त्राणि न जन्म मरणं न च। न वन्धो न च मोक्षःस्यात् पुरुषो न भवेद्यदि। कारणं पुरुष स्तस्मात् कारण रुदाहृत इति ।
नन्वस्वारोग्याणामप्याश्रयो व्याध्याश्रय एव देहो मनश्शेति दयम् । प्रारोग्याणां कारणमपि किं तद्व्याधिकारणमेवेत्य त पाह योगस्त्वि त्यादि । तुशब्दो भिन्न क्रमे पवैषां काले त्यादीनामनुत्तौ च। सुखानामारोग्याणां धातुसाम्यपूर्व कजातानां सुखानां च . कारणन्तु न व्याध्याश्रयवत्तल्यमपि तु मिन्नं तत्किमित्याह । योगः सम इति । कालबड्वीन्द्रियार्थानां समयोगः सुखानां का. रणमित्यर्थः । तत्र कालानां शीतोष्णवर्ष लक्षणानां घमामतूनां यथास्खलक्षणयोगः कालसमयोगः कालसमयोगादपि प्राह्लादीनां हेमतादीनाच वातादीनां वैषम्यचयादिहेतुत्वं रत्त
For Private And Personal Use Only