________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२२१
बद्याविषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रज्ञापरावं जानीयान्मनसोगोचरं हि तदिति । सामान्यतो निर्दिष्टं विशेषयित्वा बोध्यम् । तथार्थानामतिमात्रपट होत्क्रष्टादिशब्दानामतिमात्रं श्रवणमतियोगः। सर्वशोऽश्रवणमयोगः । परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः । तथातिशीतोष्णानां स्पस्यानां स्नानाभ्यङ्गोत्सादनादीनाश्चात्यपमेवनमतियोगः । सर्बशोऽनुपसेवनमयोगः। विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयति मि. थ्यायोगः सर्वशोऽनादानमयोगः । तथातिप्रभा. वतां दृश्यानाचातिमा दर्शनमतियोगः । सर्वशोऽदर्शनमयोगः । अतिसूक्ष्मातिविप्रलष्टरौद्रभैरवाद्भुतद्दिष्ट यीभत्स विकृतादिरूपदर्शनं मिथ्यायोगः । तथा रमानामत्यादानमतियोगः। सर्वशो ऽनादानमयोगः । श्राहारद्रव्याणामतिप्रमाणानामादानमतियोगः। सर्वशोऽल्प प्रमाणानां वाऽनादानमयोगेऽन्तर्भवति । मिथ्यायोगस्तु रसनार्थानां प्रकृतिकरणसंयोगदेशकालोपयोगसंस्थोपयोतणामाहारविधिविशेषायतनानां सप्तानां विपर्य येणोपयोगः । तत्र प्रकृतिरुच्यते खभावो यः स पुनराहारौषधद्रव्याणां खाभाविको गुर्बादिगुणयोगः। तद्यथा
For Private And Personal Use Only