________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८४
चरकसंहिता ।
कश्चित्तु कश्रियत्वोपदेशो द्रव्यस्य गुणादिपचव्यवच्छे दार्थमात्रज्ञापको न तु सजातीयव्यावर्त्तनज्ञापक स्तेन खात्म कालदिशां कर्माभावेऽपि द्रव्यत्वं गुणाश्रयत्वोपदेशच विजातीयगुणादिपञ्चव्यात्तिज्ञापनार्थमिति समवायिकारण त्वच सजातीयविजातीयगुणकम्मणोः साधम्र्मवज्ञापनार्थमिति । द्रव्यन्नत्पन्नमावं क्षणमगुणं द्वितीयक्षणावश्यम्भाविगुणवदिति याच्यते तदप्युत्तरक्षणे यगुणयोगावश्यम्भावित्वं स गुणस्तद्रव्योत्पत्तिकाले कुत्र तिष्ठति किमुपादनकञ्च कथं वा जातं किंग्रागद्रव्योत्पत्तेः पूर्व जातः किं तुल्यकालं द्वितीयक्षणजातोवाऽथ प्रसिद्ध एवाजातइति । अथ किन्नुखखाकाशेतिष्ठति । प्रासिइएवाजातः खपुष्पवदश्वाण्ड वद्दा यत्र च तिष्ठति ततएवोल्लम्फनेन तत्तदुत्पन्नद्रव्यमाविशतीति।
अथ पुनरेतल्लक्षणं व्याचष्टे । यत्राश्रिताः कम्मगुणाः कारणं समावायि यत् । तद्रव्यमिति कारणवचनेन कार्य इतिख्यापितम्। यत्र कार्य कर्मगुणा आश्रिता भवन्ति तस्य यत् कारणं समवायि भवति न तु निमित्तं तस्य कार्य्यस्य तव्यम् । येगुगाः सहजभावोत्पत्तौ नाभिव्यक्ततया जाताः सह कारिकारणान्तरयोगे तु कार्यमारभमाणात् सह
For Private And Personal Use Only