________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
तस्मात् ॥९॥ सदसत् ॥२॥ प्राक्सर्गाद्यदासीत् तत् सदेवासत् ॥२॥ कस्मात् ॥०॥ असतः क्रियागुणव्यपदेशाभावादर्थान्तरभावात् ॥३॥ सतः क्रिया. गुणव्यपदेशो यस्तक्रियागुणव्यपदेशामावः प्राक् तदुत्पत्तरित्यर्थान्तरत्वम् । यथा ॥ मृदादि खरूपेण यबस्तु तत् घटादिरूपेणोत्पत्तेः पूर्व घटादिक्रियागुणव्यपदेशाभावादसत् घटादिरूपेण सद्भिनमित्यतः ॥३॥ सच्चासत् ॥४॥ मदादिरूपेण सदपि घटादिरूपेण प्रागसत् । तच्च घटादि के सदप्यसनादादिसतोऽभावः ॥४॥ कथम् ॥ ॥यच्चान्यदसदतस्तदसत् ॥५॥ सतो घटादेरन्यन्मृदादिकमसत् । अतोऽसत एव सतो मदादिकादन्यदूघटादिकमसदभाव इत्यर्थः। उपादानाभाव उपादत्त उपादत्ता. भाव उपादानम् । मदाद्य भावो घटादिकं घटाद्यमावो मदादिकम् । अनखो गोरखाभावो गौरगौरखो गवाभावोऽख इति खेन रूपेण स्वभावेन भावेष्वितरेतराभावसिद्धेः सर्वमेव वस्तु खल भावो भाव इति ॥५॥ कथमसदिति प्रतीयत इत्यत आह ॥
असदिति भूतप्रत्यक्षाभावाद्भूतस्मते विरोधिप्रत्यक्षत्वात् ॥६॥
अनखे गवि त्ववाभावेऽसदिति अग्वाभाव इति
For Private And Personal Use Only