SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । अपां सङ्घातो यत्करकाहिमानोरुपो दृश्यते तत्र कारणं तेजः संयोगः सम्बतबास्पस्थानतेजःसंयोगः सलिल सङ्घात कारणं तत्सवातस्य विलयनमसखतस्थानतेजःसंयोग इत्यतोपां द्रवत्वमेव न तु काठिन्य मिति। ननु तेजः संयोगे कि प्रमाणमित्यत पाह। तत्र विस्फर्जलिङ्गम् । करकाणां संहतीभावे तेजःसंयोगे लिङ्ग विस्कर्जथविद्यदिति । अथानुमान प्रमाणवदातोप देशोपि प्रमाणान्तरमस्तितदाह। .. वैदिकच्च। तत्र करकादिरूपसङ्घातेऽपां तेजः संयोगकारणं तत्र प्रमाणं वैदिकञ्चाप्तोपदेशश्चास्ति । वेदश्चायम्। आपस्ता अग्निं गर्भमादधीरन् । या अग्निं गर्भ दघिरे सुवर्ण इत्यादि। ___ ननु विस्फुर्जथः कथमुत्पद्यते इत्यत आह । अपां संयोगादिभागाच्चाद्रिस्तनयित्नोः। अद्रिः सुदामनामा पर्वतः । तस्य मेघस्य च परस्परं संयोगादिभागाचापां विस्फुर्जथुर्जायते । अव गर्भस्थं हि तेजोऽद्रि मेघतंयोगविभागाभ्यां विद्योतते इति विवर्त्तमनमपां तेजो विद्युत् । ननु नोदनापोड़नात् संयुक्तसंयोगाच्च वक्रनायो For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy