________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं सवृत्तिकम् ॥
॥२१॥
वृद्धसम्प्रदायः ।। भावाऽसत्याभेदा एव च दश, अनन्तरं नियुक्तिगाथया दर्शयिष्यन्त इति ध्येयम् ॥ अत्र द्रव्यभावसंयोगे विधिप्रतिषेधाभ्यामपि चतुर्भङ्गी भावनीया । तथाहि ॥" दबओ णाम एगे पुसावाए णो भावओ १, भावओ णाम एगे मुसावाए नो दबओ २, एगे दव्यओ वि भावओ वि ३, एगे णो दव्वओ णो भावओ४। तत्थ दबओ मुसावाओ णो भावओ जहा कोई भणिज्जा-अस्थि ते कहिं पसुमिगाइणो दिठा ? ताहे भणइ णत्थि, एस दवओ मुसावाओ णो भावओ १॥ भावओ णो दबओ जहा मुसं भणिहामित्ति, तओ तस्स वंजणाणि सहसत्ति सच्चगाणि विणिग्गयाणि ताणि । एस भावओ णो दब्बओ २ ।। दबओ बि भावओ वि जहा | मुसाबायपरिणओ कोइ तमेव मुसावायं वदेजा ३॥ चउत्थो भंगो सुण्णोत्ति" ।। ( द्रव्यतो नामैको मृषावादो नो | भावतः१। भावतो नामैको न द्रव्यतः२। एको द्रव्यतोपि भावतोपि३ । एको नो द्रव्यतो नो भावतः४। तत्र द्रव्यतो मृषावादो नो भावतो यथा कश्चिद्भणेत् । अस्ति त्वया कुत्र पशुमृगादयो दृष्टाः, तदा भणति नास्ति, एष द्रव्यतो मृषावादो न भावतः १। भावतो नो द्रव्यतः यथा मृषां भणिष्यामि इति ततस्तस्य व्यञ्जनानि सहसात्सत्यानि विनिर्गतानि तानि, एष भावतो न द्रव्यतः२। द्रव्यतोपि भावतोपि यथा मृषावादपरिणतः कश्चित्तमेव मृषावाद वदेत ३॥ चतुर्थो भङ्गः शून्य इति ।।) सा पुनरुक्तलक्षणाऽसत्या, दशधा ।। तथाहि-कोहेत्ति अत्र सप्तमी पञ्चम्यर्थे, तथा च क्रोधानिःसृता निर्गतेत्यादि व्याख्येयम् , अथवा निश्रा जाताऽस्याः सा निश्रिता क्रोधे निश्रिता क्रोधनि| श्रितेत्यादि यथाश्रुतमेव क्रोधे इति । शिष्टं स्पष्टम् ।। ३९ ।। अत्र पूर्व क्रोधनिःसृतामेव निरूपयति ।
असत्याभाषाया द्रव्यभाव संयोगतो विधिनिषेघमुखेन चतुर्भङ्गी निरूपणम्॥
॥२१॥
For Private and Personal Use Only