________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
निशामक्ते स्वरूपतो
क्षितत्वविचारः॥
॥५८॥
॥ निजप्रज्ञासंस्मारितातीतश्रुतकेवलि-न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतः ॥
॥निशाभक्त स्वरूपतो दृषितत्वविचारः॥ ऐन्द्र श्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् ॥ स्वरूपेणैव दुष्टत्वं, निशाभक्त विभाव्यते ॥१॥
अथ स्वरूपेणैव दुष्टत्वमित्यस्य कोऽर्थः १, उच्यते, यथा हिंसामृषावादादिकं आगमनिषिद्धत्वात्स्वरूपेणैव दोषः, नतु तस्य दोषत्वे नियमतो दोषान्तरानुषङ्गित्वं प्रयोजक तथा निशाभोजनमप्यागमनिषिद्धत्वात्स्वरूपेणैव दोषो नतु तस्य दोषत्वे दोषान्तरानुषङ्गः प्रयोजक इति । एतेन यदुच्यते "रात्रौ सर्वत्र भक्ष्ये कुन्थुपनकोरणिकादिरवश्य जीवोत्पत्तिरिति तद्धिसानुषङ्गादेव वर्जनीयं विभावरीभक्तमिति" तदपास्तं द्रष्टव्यं, आगन्तुक-तदुद्भवव्यतिरेकेण भक्ष्य रात्रिसम्बन्धमात्रेण जीवोत्पत्तेः सुधर्मस्वामिनमारभ्याद्य यावदप्रसिद्धत्वात् । अन्यथा कस्यचिदपेक्षया किश्चिद्भक्ष्यमिति सर्वत्रापि जीवोत्पत्तौ वस्त्रादेरपि रात्रावग्रहणप्रसङ्गः। नच नियतभक्ष्यापेक्षयैव जीवा चखान विवरं सोऽथ, निम्नावन्यामुदन्यकः ॥ ववृधेऽस्य तृडत्यर्थ, तथा पङ्कश्च वर्मणि ॥ २॥ तदुत्थं शीतलं स्वच्छं, पायं पायं पयः पुमान् ॥ चिच्छेद स दुरुच्छेदां, तृषामेष क्षणादपि ॥ ३ ॥ अविहस्तः स्वहस्तेन, सेवं सेवं तदम्भसा | भीष्मग्रीष्मार्कसम्भूतं, देहाहाहमजीहरत् ॥ ४ ॥ प्रक्षाल्य तज्जलेनाङ्ग, क्षालयामास मंश्वसौ ॥ प्राचीनं च नवीनं च, मलं निर्मलबुद्धिकृत् ॥ ५॥ अत्र चोपनयो भव्य-जीवो भ्राम्यन्भवाटवीम् ॥ | तृष्णातापमलै: क्लान्तो, लोभतृदपापलक्षणैः ॥ ६॥ विवेकभूमिमासाय, सोऽथ द्रव्यस्तवं दधत् ।। विषयेषु तृषां तीक्ष्णां, क्षिणोत्यक्षुण्णहर्षभाक् ॥ ७॥ तं द्रष्टुमागतान्दृष्ट्वा, मुनीन्श्रुत्वाथ देशनाम् ॥ कषायशिखिसन्तापं, निर्वापयति शुद्धधीः ॥ ८ ॥ दानादिकं च सद्धर्म, कुर्वन्पापमयं मलम् ॥ क्षालयत्यखिलं क्षिप्रं, युक्तोऽतः श्रावकस्य सः ॥ ९ ॥ इति प्राचीनतमपुरुषप्रणीत: कूपदृष्टान्तोपनयः सम्पूर्णः ॥
ACCRGACACAAREGANA
For Private and Personal Use Only