SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SCSKARANAGAR E-%CAR उत्पत्तिं यान्तीत्याहोपुरुषिकामात्रमेतत् । किश्च रात्रौ तदुद्भवागन्तुकजीवानां दुर्दर्शत्वेनैषणाद्यशुद्धिसम्भवेन च हिंसादोषमुद्भाव्य तत आगमनिषिद्धत्वादेव विभावरीभक्तस्यानासेवनीयत्वमुक्तं तत्त्वार्थवृत्ताविति किमन्यादृशपरिकल्पनया प्रौढिवादपराणां श्राद्धदिनकृत्ययोगशास्त्रवृत्त्यादिग्रन्थानां सम्प्रदायशुद्धतात्पर्यमजानतो देवानां प्रियस्य । तथा च तत्त्वार्थ (अध्याय ७ सूत्र २) वृत्तिः। “कः पुनर्दोषो रात्रिभोजन ? इति चेत् , एवं मन्यते उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति । एतदयुक्तं, कालातिक्रान्तस्य प्रतिषिद्धत्वात् गृहीतस्यानीतालोचितक्षणविश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात् निशाहिण्डने चैर्यापथविशुद्धरसम्भवात् दायकगमनागमन-सस्नेहपाणिभाजनाद्यदर्शनादालोकितपानभोजनासम्भवात् , ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत्, तदप्यसद्, अग्निसमारम्भनिषेधाद्रत्नपरिग्रहाभावाज्ज्योत्स्नायाः कादाचित्कत्वादागमे तन्निषिद्धत्वाद्धिंसावदनासेवनीयमेव विभावरीभक्तमिति ॥” अत्र हि विभावरीभक्तस्यानासेवनीयत्वे आगमनिषिद्धत्वमेव हेतुरित्यत्र निर्भर इति ॥ भ्रान्तः शङ्कते हिंसावदेवेत्यस्य हिंसायुक्तमेवेत्यर्थ इति ?, तत्तुच्छम् । उदाहरणपरस्यैतद्वचनस्य हेतुपरत्वे प्रमाणाभावात् । एकहेतोरेव चरितार्थत्वे हेत्वन्तरस्यानाकाक्षितत्वादप्रयोजकत्वेन हेतुहेतुपरत्वस्याप्ययोगात् । तथा सति हिंसावदित्यनन्तरमितीत्यस्याध्याहारप्रसङ्गाच्च । | अथाऽनासेवनीयत्वं बलवदनिष्टाननुबन्धित्वे सति कृतिसाध्यत्वाभावः, आगमनिषिद्धत्वमित्यत्र चागमाभिधानं प्रमाणदाक्य, हेतुस्तु निषिद्धत्वमेव, तच्च स एवेति हेतुसाध्ययोरभेदप्रसङ्गान्नेदमनुमानं घटा प्राश्चति ? इति चेत्, For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy