________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
64
आयुर्वेदसूत्रे
रावृतजिह्वाग्रगतपनं मातुरङ्गात्स्नवीभूतरसबन्धनएनं गर्भाशये जायत इत्याह-यवर्णेति ।
यवर्णज्ञापकं रसबन्धनपद्मं द्विसिरावृतम॥३४॥
सर्ववर्णज्ञापकहेतुभूतं लालारूपजलात्मकाविर्भूतं थवर्णदेवता. त्मकं गर्भाशये जिह्वाग्रगतपद्मं जायत इत्यर्थः ।
जिह्वाग्रस्थितपद्मपार्श्ववर्तिसरन्ध्रकाभ्यन्तररेफवर्णदेवतात्मकं मातुराहाररसपरिणामवशात् गर्भाशये जिह्वापार्थ्याग्रपद्मं जायत इत्याह---रेफेति।
रेफवर्णोत्पादकमोष्ठपद्मं षोडशसिरावृतम् ॥ - लवर्णजनकं वाचस्पतिप्रदेशस्थं द्विसिरावृतम्॥
. सकलवर्णोत्पादकवाचस्पतिप्रदेशगतमोष्ठपनं स्वं स्वं स्वोमणा स्रवद्रसात्मकं गर्भाशये दृश्यत इत्यर्थः ॥ ___ चतुर्विशतिसिरात्मकलवर्णज्ञापकं तद्वपिष्ठितदेवतात्मकं स्वं स्वं स्वोष्मणा स्त्रवद्रसात्मकं नासिकाग्रगतपनं जायत इत्याह-वेति ।
ववर्णोत्पादकं नासिकाग्रगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ ३७॥
गन्धवती पृथिवी सर्वद्रव्यनिष्ठगन्धं चतुस्त्रिंशात्सरावृता जिघ्रन्ती गर्भाशयं प्रविश्य प्रादुर्भवतीत्यर्थः॥ । ___एकैकसिरावृतं तालुद्वयगतपनं शवोंञ्चारणहेतुभूतं आस्यप्रदेश सम्प्राध्य श्रोत्रप्रदेशपनं भवतीत्याह-शति ।
शवर्णज्ञापकं गन्धवहपद्मं द्विसिरावृतम् ॥३८॥
For Private And Personal Use Only