________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्न:
61
कुण्डल्या धारभूतगतपवनदेवतारूपषदकमलानामाधारभूतत्वात् श्वासोच्छ्वालरूपपवनाधारभूतं नाभिपद्मं मातुराहाररसजातरसाहृत कमलकाण्डालवालस्थरूपं विवृणोति-अति । - वर्णोत्पादकं नाभिप्रदेशपद्म विंशतिसिरा
वृतम् ॥ २४॥ .
कुण्डलीगततत्पार्श्वगपवनस्य आधारभूतं सरन्ध्रकाभ्यन्तरधरं विंशतिसिरावृतम् । नाभिप्रदेशपनं अवर्णदेवतात्मकं पाचकपित्ताग्निजनकं अग्निचक्रजातश्वासानिलोष्मणा सहस्रदळावृतशिर कमलस्थामृतजनक भवतीत्यर्थः ॥
नागिरन्ध्रसिरावृतकुण्डलीरूपपवनचक्रं सरन्ध्रकाभ्यन्तरधरात्रशत्सिरावृतं नाभिपद्मावृतपवनचक्रं व्याचष्टे - टठेति ।
टठवर्णोत्पादकं नाभिप्रदेशपमं त्रिंशत्सिरावतम् ॥ २५॥
कुण्डल्याधारभूतानिलात्मनाभिरन्ध्रसिरावृतपवनचक्रं मातुराहाररसाद्गर्भाशयं पोषयत् टठवर्णदेवतात्मकं विंशत्सिरावृतं नाभ्यावृतपवनचक्रमाविर्भवतीत्यर्थः ।
नाभिपार्थस्थितरोमराजिकार्यजनकाभ्यावृतालवालचक्रं द्वाविंशतिसिरावृतडढवर्णदेवतात्मकं. मातुराहाररसाद नाजातरसस्नावितं गर्भाशयरोमराजिशाखि जायत इत्याह --डढोति । ___ डढवर्णहेतुकं रोमराजिपार्श्वगतं द्वाविंशतिसिरावृतम् ॥२६॥
सरन्ध्रकाभ्यन्तरधरद्वाविंशतिसिरावृतपवनेन डढवर्णदेवता
For Private And Personal Use Only