________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्न:
अथ ज्ञापनार्थे तदुत्पादकान्यङ्गान्याह - शिर इति ॥ शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घशिनोपस्थपावङ्गानि भवन्ति ॥ ६ ॥
ग
प्रतानि मातुर्गर्भाशये स्त्रवन्ति । तत्तदङ्गान्याविर्भवन्तीत्यर्थः । ते रसा गर्भाशयमुखं पुष्णन्तीत्यर्थः । गर्भाशयगतोष्मणा मातुः पाद पार्श्वपृष्ठोदरजङ्घाशनोपस्थेभ्यस्सारास्त्रवन्ति । तत्सारजन्यसाराः पार्श्वद्यङ्गोत्पादकाः । तद्रसात्मकं चौजो भवति । अन्तबल्याः शिरोमांसाशयानां सारस्य गर्भे स्त्रावितत्त्वात् । र्भाशये पवनप्रकोपस्य युक्तत्वात् तदर्थं स्वादु रसवद्दव्यमद्यात् अङ्गाविर्भावानन्तरं श्रोत्रत्वक्चक्षुर्जिह्वाम्राणानामतिक्षत्वात् तत्तत्स्थितानि तत्तत्स्थानं विहाय गर्भाशयं प्रवेष्टुमयोग्यत्वात् श्रोत्रादीनामाविर्भावः कथं स्यादित्यस्वरसादाह-श्रोत्रेति ॥ श्रोत्रत्वक्चक्षुर्जिह्वाप्राणास्तथा ॥ ७ ॥
3
:
सर्वेन्द्रियाणि सूक्ष्मशरीराण्यपि मातुस्स्वशरीरास्थितपभूतानां गर्भाशये उपलभ्यमानत्वात् । इन्द्रियादीनां तत्तद्गुणत्वादेव गुणिनमन्तरेण गुणावस्थानस्य वक्तमयोग्यत्वात् तत्तद्भूतप्रवेशनात्तत्तदिन्द्रियसहिता एव गर्भाशयं प्रविशन्तीत्यर्थः । धात्वादीनां सारद्रव्यत्वेन स्वं स्वं स्वोष्मणा स्त्रवत्तत्तदा कृतिकार्यहेतुकमातृधातुनावितावयवो गर्भाशये कुणपावयवाभिवृद्धिहेतुककार्य रसावकाशवन्द्भवतीति । तस्मात्तयोः कार्यकारणभावी वक्तुं शक्यते । अत्र तु निराकृति द्रव्यं सरन्ध्रकं कथमन्यत्र प्रवेष्टुं शक्यते ? शिरःपाण्यादिवत्सावयवद्रव्यत्वाभावात् सावकाशप्रवेशानवकाशः । इदं तु निरवयवद्रव्यं स्वमातृस्थावयवसारं गर्भाशये नवतीति वक्तुमशक्यमित्यस्वरसादाह- सरन्ध्रेति ।
For Private And Personal Use Only
55
-