________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
54
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
र्यदर्शनस्य हेत्वभावो दृश्यते । कारणेन विना कथं कार्योत्प त्तिरित्यस्वरसादाह-स्वमिति ।
स्वं स्वं स्वोष्मणा स्स्रवद्रसात्मं चौजः । स्वं स्वं स्वस्य स्वयमेव हेतुर्भवति ॥ ५ ॥
स्वाङ्गानि स्वस्मिन्नेव प्रजाः प्रजायन्ते, अन्यथा तदन्वयव्यतिरेकाभ्यां सुखदुःखे कथमुपपद्येते । अन्यजननस्य तदन्वयव्यतिरेके सति सुखदुःखानुभवोऽस्तीत्यत इतरजनने स्वशरीरमेव कारणमिति । तत्र काव्यवचनं
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मनैव प्रलीयसे ॥ श्रुतिवचनं
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदां शतम् ॥ गर्भाशयगतोष्मणा मातुः पित्तसारः स्रवति । तत्सारजन्यसारः शिरउत्पादको भवति । तद्वसात्मकं चौजो भवति । गर्भाशयगतोष्मणा मातुः पाणिः स्रवति । तत्सारजन्यो रसः पाण्युत्पादको भवति । गर्भाशयगतोष्मणा मातुः पादसारस्स्रवति । तत्सारजन्य सारः पादोत्पादको भवति । एवं पार्श्वे च । पृष्ठो दरजङ्घशिनोपस्थपाय्वङ्गादीनि गर्भाशयगतोष्मणा मातुरङ्गानि एषु स्रवन्ति । तत्सारजन्यसाराणि तदुत्पादकानि भवन्ति । मातुराहाररसाहारास्तद्व्यतिरिक्ताङ्गाभिवर्धकाः । तान्यङ्गानि र कभूतानि सन्ति । तत्तदङ्गेषु वायुः प्रकुप्यते । तत्पवनकोपनिवृत्त्यर्थं स्वादुरसवद्द्रव्यम्, तनिवर्तनद्वारा भेषजं स्वादुरसमश्नीयात् ॥
For Private And Personal Use Only