SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir ष्ठीवनक्षवधूङ्गारनिश्श्वासान्नप्रवेशकृत् । उरस्स्थानमुदानस्य नासानाभिगलांश्चरेत् । वाक्प्रवृत्तिप्रयतो जोवल वर्ण प्रतिक्रियः ॥ * ररिचचनं इति । एतद्वचनानुसारेण सर्वशरीरव्यापकत्वमनिलस्य ! तस्मात्स्वादुरसः अनिलकोपं हरतत्यिर्थः ॥ 53 ननु एतादृशाशयानां सर्वशरीरान्तस्स्थितत्वस्य सार्वजनीनत्वेन तत्तत्कार्योपलम्भकत्वं यथाविधि चोदितमिति सप्ताशयासप्तधातुमन्तः सर्वसाधारणत्वात् । तथा सति पष्वाशयेषु प्रजाजननदेशं निर्णेतुमशक्यत्वात् किं च सप्तत्वाक्सिराधास्वाशयाभिवर्धनं पञ्चपाचकपित्तानिल जातस्वादुरसोऽनिलप्रकोपमपहरतु । तस्य रोगारोगेककारणत्वं सर्वशरीराणां सुप्रसिद्धमिति तात्पर्य मनसि निधाय प्रजाजननहेतुप्रदेशं विवृणोति -अष्टेति । अष्टमो गर्भाशयः स्त्रीणाम् ॥ ४ ॥ प्रजाजननहेतुकाशयः स्त्रीणामेव सम्भाव्य इत्यर्थः । तत्र शा - गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे । । सप्ताशयातिरिक्तं पित्तपत्राशयान्तरं नेतरेषु सम्भावितमिति गर्भाधानहेतुकत्वं स्त्रीणामेव सम्भावितत्वात् । अत एव प्रथमतः स्त्रीणां नामोचारणानन्तरं पुंनामोश्वारणमिति सकलशास्त्रेषु श्रेष्ठक्रमोऽस्तीति व्यपदेशितम् । आदौ स्त्रीपुरुषयोर्धातुरेव योन्यां प्रविश्य जनयति । तथा सति धातुमेलनमेव पिण्डं भवेत् । यावत्कारणं तावत्कार्यमिति न्यायात् । इदानोमङ्गजननका * अष्टाङ्ग सूत्रस्थान, XII. 4-5 + अष्टाङ्गशारीर. III. 11. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy