________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
52
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसू
षट्सहस्रत्रिंशत्सिरास्त्रिंशच्छल्याश्शतद्वयदशोतरसन्धयो नवाशीतिस्नायुपेशिधरा भवन्ति ॥ २ ॥
शरीरमात्रं सर्वत्र सिरावृतम् । तथाऽस्थीनि सन्धयश्चाशयाव सर्वैरेभिरावृतं शरीरमिति । तत्सर्वे भूतभयम् । मातुरेवोत्यद्यन्त इत्यर्थः । दोषास्सिरावृता मर्मंगता आशयस्थाश्च । एते स्वस्थदोषमार्गा. अन्यस्वस्थधातून्प्रविशन्ति । स्वस्थास्वस्थदोषविज्ञानार्थ सर्वशरीरं विभज्य तत्तज्ज्ञानं विज्ञाय दोषप्रकोपानपहर्तुं शक्यत एवेत्यर्थः । शरीरस्थित सिरादीन्विभजति ॥
ननु सप्तधातुधरास्सप्तत्वं च पवनसप्तत्वं चाश्रितम् । अन्तःप्रविष्टस्स्वादुरसो भूत्वाऽनिलप्रकोपं हरतीति यत्तदयुक्तं, धातुपोषककार्योपकारकत्वेनान्यथासिद्धत्वात् । त्वगन्तस्स्थरसासृगादयो यथाविधि मार्गे सञ्चारीकृताः । पवनप्रकोपस्य निवारकत्वं स्वादुरसस्य कथं भवेदित्यस्वरसादाह - सप्तेति ।
सप्तधातुधरास्सप्ताशयास्तन्मध्यगग्रहणीकलाजातः स्वादुरसोऽनिलप्रकोपं हरति ॥ ३ ॥
अस्यार्थः - सप्तत्वचः सप्तधातून्दधति । रसरक्ताद्यपि अनिलसञ्चाराद्यथामार्गमनतिक्रम्य स्थितस्थापकत्वमनिल एव हरति । तस्य तावन्मात्रोपकारकगुणत्वात् स्वादुरसः अनिलप्रकोपं हरतीति यत्तयुक्तमित्यर्थः । गतागतकलोपकारकत्वं अनिल एव करोति । तस्मादनिलप्रकोपनिवृत्त्यर्थे स्वादुरसद्रव्यादनं युक्त. मित्यर्थः । तत्र सूत्रवचनं
प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः ॥ उरः कण्ठ्चरो बुद्धिहृदयेन्द्रियचित्तधृक् ।
For Private And Personal Use Only