SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: 49 सात्विकराजसतामसगुणाः तत्तदुत्पादकहेतुत्वकाः कार्यमनुयान्तीति हेतुमद्भावस्य नियामकत्वात् । तत्तद्धेतुभूतरसादनाजातसात्विकगजसतामसगुणाः जीवात्मनि सन्ति । अत एव तस्य गुणित्वं प्रतिपादितम् । यथा स्फटिकस्थितं तेजः । अर्कतीक्ष्णकिरणाविर्भावे सति तत्रानलो दृश्यते। तत्र स्फटिकार्ककिरणसंयोगः कारणम् । कार्योत्पादकसामग्रयां सत्यां अविलम्बन कार्यकारणभावसामग्रीसान्निध्यात् कार्य यत्र दृश्यते तत्रायं नियमो ज्ञातव्यः । तत्र जीवस्यावयवे सात्विकादयः अरष्टादिसकलसामग्रयां सत्यां मातापित्रन्तरुपस्थितहिताहितान्नादनादन्तः प्रविष्टे सति ग्रहणीकलाश्रयो धातूनसम्पोष्य रसासमांसमेदसां समाहारो रक्तधातुरिति व्यपदिश्यते । पैतृकं तु शुक्लम् । अस्थिमजारेतसां समाहारश्शुक्लमिति व्यपदिश्यते । अन्यथा रक्तशुक्लावेव कारणे सप्तधातुमयशरीरोत्पत्तिरूपकार्यस्येति वक्तुं न शक्यते । तस्मात्सप्तधातुमयं शरीरमिति शापनार्थम् ॥ मृवत्र मातृज रक्तमांसमज्जासृगादिकम् । पैतृकं तु स्थिरं शुक्रं धमन्यस्थिकचादिकम् । ॥ इति वचनानुसारेण । अत्र काव्यवचनंस्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेस्सिसूक्षया । प्रसूतिकाले सर्वस्य तावेव पितरौ स्मृती॥ तस्माच्छुक्लशोणितसन्निपातो योनिरिति । सान्निपात्यशब्दमहिना बीजात्मकधातुमेलनं सान्निपात्यम् । तत्र शारीरवचन 1 अष्टाङ्ग, शारीर. III. 4. AYURVEDA. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy