________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
बीजात्मकैर्महाभूतैस्सूक्ष्मैस्सत्वानुगैश्च सः । मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्धते * ॥
ननु मातृधातवश्चत्वारः । पितृजाश्च त्रयः । तावन्मात्रेण शरीरात्पत्तिः प्रतिपादिता। इतः परं सत्वरजस्तमोगुणानां कस्य द्रव्यस्य गुणित्वम् । तथासात गुणगुणिनोः कार्यकारणभावो वक्तुं शक्यते । तेषां गुणिरूपद्रव्यादर्शनात् न गुणिनमन्तरण गुणास्सन्ति । तस्मात् सत्वरजस्तमोगुणात्मकं शरीरामति सूत्रस्यैकदेश व्यर्थ स्यादित्यस्वरसादाह--आयुरिति ।
__ आयुरारोग्यतेजोबलशुद्धादि वपुस्सत्वगुणोत्पादकम् ॥७॥
सत्वगुणस्यैतादशलक्षणानि सन्तीति प्रतिपादितम् । ननु गुणाश्रयो द्रव्यामिति गुणाश्रयत्वं द्रव्यस्य । पञ्चभूतानां गुणाः । इति ते तत्तद्रव्यनिष्ठास्सन्ति । अतस्ते पृथग्व्यवस्थिताः। अत एतेषां सत्वरजस्तमोगुणानामेते एतस्य द्रव्यस्येति व्यपदिशेत् । तेषां गन्धादीनां गन्धरसरूपस्पर्शशब्दाः पञ्चभूतानां एकैकशोऽवच्छेदकाः। गुणत्रयस्य तेषां नावच्छेदकत्वात्, गुणो गुणिनमन्तरेण स्थातुं नोपपद्यत इत्यस्वरसान्तरादाह-आयुरिति ।
आयुश्च आरोग्यं च तेजश्च बलं चैतानि स्वरूपाणि वपुष आविर्भवन्तीति कारणान्यथानुपपत्त्या तत्तत्कार्यकल्पनस्य विधेयत्वात् ।अत्र शारीरवचनं
तेजो यथार्करश्मीनां स्फटिकेन तिरस्कृतम् । नैधनं दृश्यते गच्छत् सत्वो गर्भाशयं तथा।। * अष्टाङ्गशारीर. -2 + अष्टाङ्गशारीर --3
For Private And Personal Use Only