SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 42 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे पृथग्व्यवस्थिताः पञ्चभूताः अस्मिन् शरीरे नोपपद्यन्ते देहस्य दोषधातुमलाशयात्मकत्वात् । एकैकस्य महाद्रव्यत्वात् संसृष्टेरभावात् । एकैकस्य च नांशतस्संसृष्टिः । तेषां विभजनं कर्तुमशक्यत्वात् । एकैकशरीरे तत्तल्लक्षणसहितद्रव्योपलब्धेरभावात् । तस्मात्पञ्चभूतात्मकं शरीरांमति वचनं न क्षोदक्षममित्याशयं मनसि निधाय आदौ गगनभूतस्य तत्संसृष्टिलक्षणं तत्कार्ये च व्यपदिशति - श्रोत्रेति । श्रोत्रान्तस्स्थितशब्दगुणकबोधकासराभ्यां भू यते ॥ ७६ ॥ अस्यार्थः - अन्तस्तिष्ठत इत्यन्तस्थितौ । तयोरन्तस्थितयोः शब्दो गुणो ययोस्तौ शब्दगुणकौ । बहुव्रीहौ कप्रत्ययः । उपस्थितयोग्यविषयस्य बोधिकाभ्यां सिराभ्यां श्रूयते । तत्र शारीर वचनम् - ess प्रत्यक्षं तस्याक्षिहृदयादिकम् । शब्दः स्पर्शश्च रूपं च रसो गन्धः क्रमाङ्गुणाः । खानिलाग्नयन्भुवामेकगुणवृद्धयन्वयः परे । * I एकादशगुणवद्रव्यं शरीरेऽन्वेति । गन्धवद्गुणभूतो नासिकायामुपलभ्यते । अन्भूतगुणलक्षणस्य जिह्वायामुपलब्धिः । तैजसगुणवद्रव्यं अक्ष्णोः प्रतिभाति । तत्र रूपोपलभकज्ञानं प्रमाणम् पवनद्रव्यं स्पर्शगुणम् । शब्दगुणवदाकाशद्रव्यम् । कर्णशष्कुल्यवच्छिन्नाकाशे शब्दोपलम्भकत्वात् । तस्मात्पञ्चभूतात्मकं शरीरमिति वाक्यं सुप्रसिद्धम् । शब्दगुणवानाकाश इत्याकाशस्य * अष्टाङ्गशारीर III. - 1-2 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy