SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir लक्षणं प्रसिद्धमित्यर्थः । श्रोत्रान्तस्थितासिराभ्यां श्रूयते शब्दः । तावत आकाशस्य शरीरात्मकत्वं कथं सङ्गच्छते ? 'यत्सत्वे यत्सत्वम्; यदभावे यदभावः' इति न्यायेन शब्दग्राहकप्रतीतशब्दग्रहणं अन्वयव्यतिरेकाभ्यां देहस्याकाशात्मकत्वं न साधयति । तस्मात्पञ्चभूतात्मकं शरीरामेति वचनस्य यदूषणं दत्तं तदपरिहार्ये भवेदित्यस्वरसादाह - शब्द इति । a 43 शब्दगुणक आकाशः ॥ ७७ ॥ शब्दो गुणो यस्य स शब्दगुणद्रव्यमाकाशः । बहुव्रीहौ कप्रत्ययः । आकाशस्य शब्दगुणकत्वात् । द्रव्यान्तरस्पर्शे सति तद्विषयकज्ञानं जायते । तदन्यथानुपपत्तया तद्वयापकत्वं वायोः प्रततिम् । (आकाशवन्निर्गुणद्रव्यप्रतीतत्वात्) स्पर्शेकवेद्यत्वं वायोः प्रतीयते, स्पर्शगुणवान्वायुः इत्युपलम्भकत्वात् । स्पर्शो गुणो यस्य स स्पर्शगुणवान् । द्रव्यान्तरसंसर्गे सति तद्विषयकज्ञानं जायते । तद्वयतिरिक्तेन्द्रियाणां अविषयत्वे सति तद्विषयकत्वात् । तदधीनज्ञानविषयकज्ञानं त्वगिन्द्रिय ज्ञानविषयकज्ञानपवनस्य एकदेशशरीरव्यापकत्वं सुप्रसिद्धम् । रसासृग्धातुजन्यां त्वक् । तद्न्यधात्वनाधारभूतत्वचः श्वासोच्छ्रासरूपपवनाधारकत्वं प्रतिपाद्यते—रसेति । रसासृग्धातुजन्या त्वक् श्वासोच्छ्वासवहा ॥ सप्तधातुत्वावृतानिलो वियज्जातः ॥ ७९ ॥ उभयोरपि धातुत्वव्याप्यकार्ये प्रति एकशरीरस्य कार्यकारणत्वं भवति । एतावता त्वमात्रस्य रसासृग्वातुजन्यत्वं सर्वजातिशरीरत्वचां व्याप्यत्वं प्रत्यपादीत्यर्थः । स वायुराकाशजन्यः, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy