________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्नः
35
मपालनत्वम् । तस्यारोगहेतुकत्वात् । 'रिक्त वायुः प्रकुप्यते' इत्येतत्सूत्रं व्यर्थ स्यात् । ग्रहणीकलायाः समानानिलसमी. पस्थितत्वेन ज्वलनहेतुकसामग्रीसत्वात् । ‘अनलोऽल्पो भवति' इति सूत्रमपि व्यर्थ स्यादिति चेत्, पञ्च..णोपकारकान्नग्रहणाहोषोपकारकाः। मलमूत्राधिकमपि विशेषतः । आशये रिक्ते सति पवनप्रकोपहेतुत्वं यत्र दृश्यते तत्रायं नियमः-मलमूत्रनिरोधनाजातामये दृष्टे सति तनिवर्तकद्रव्येण रेचिते तेन रिक्तीकृताशये यत्र पवनप्रकोपहेतुत्वं तत्र त श्यत इति तात्प र्यम् , तस्य दृष्टत्वात् । आमाशयस्य रिक्ततया रूक्षता वातस्य। सक्षगुणत्वं प्रथमत उपात्तं विरुद्धरसादनाजाताजीर्णगुणहितामयेन सारकिट्टतया अविभज्य पचनात् मलमूत्रादिकं द्रवीभूतमप्रकृतमिति प्रतिभाति । तत्र सिद्धकलायाः अज्वलितत्वाजातानलपचनात् जातामये रटे सति तबिरुद्धचलकृताशयस्य रिक्ततया दोषप्रकोपहेतुकत्वं स्यात् । तस्मात् 'रिक्त वायुः प्रकुप्यते' इति सूत्रं सम्यक्प्रतिपादितमित्यर्थः । अजीर्णजातामये आमाशयरिक्तत्वाजातानलप्रकोपस्य च सन्धुक्षणावश्यकत्वेन आदौ पवनप्रकोपरहितकार्यस्य कारणीभूतरसद्रव्यं व्या. चष्टे-मधुरीति।
मधुरीभूताभ्यवहतानं पवनप्रकोपहारकम्
तत्स्वभावसिद्धमधुररसेन तत्तव्यकर्मोपाधिना अनिलप्रकोपाभावकार्यस्य यन्निवर्तकं मधुरीभूतं कृत्वा तावद्भुक्तानं पवनप्रकोपं हरतीति हारकम् । आमाशयरिक्तताकार्ये तत्स्थानप्रकोपे सति यावद्भुक्तानं पक्तुं अग्नेरनवकाशात् तन्निवर्तक
For Private And Personal Use Only