________________
Shri Mahavir Jain Aradhana Kendra
26
www.kobatirth.org
आयुर्वेद
Acharya Shri Kailassagarsuri Gyanmandir
रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता ॥ प्रसेकारोचकाश्रद्धा विपाकाः स्वेदजागराः । कण्ठोष्ठशोषस्तुशुष्क छर्दिकासौ विषादिता ॥ हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोः ग्रहः । भ्रमः प्रलापो घर्मेच्छा विनामश्वानिलज्वरे ॥ *
पवनपित्ते अङ्गपोडनं सर्वाङ्गेषु प्रपीडनम् । मलमार्गतिरो धनं सर्वमलद्वाराणां वायुपूरितत्वान्मलमूत्रादिकार्यकारणं तुझ्शकं च भवतीत्यर्थः । धातुचरमार्गविगमनं विरुद्धगमनं रोगहेतुकम् | अनिलादनिलस्थलचलनं जठरानलस्थलचलनं भवति । लग्नस्थलचलनत्वात् आहारपचनं कर्तुमशक्यत्वादित्यर्थः । तत्र दोप्रकोपहेतुकरसविरसादनादजीर्णे जाते दोषभेदेन ज्वरास्त्रिविधा भवन्तीति वक्तुं शक्यते । सर्वसामान्यज्वर एकः तदन्तरदोष - भेदेन त्रिधा भूत्वा ज्वरश्चतुर्विधो जातः । इतः परमष्टज्वरस
यापूरणार्थ पञ्चमो वातपित्तज्वर इति वक्तुं न शक्यते । एतत्प्रतिपादितज्वराज्यतिरेकेण तदुत्पादक सामग्रयभावादेव तत्कार्य नोपपद्यते, कारणेन विना कार्याभावस्योक्तत्वादित्यस्वरसादाहपवनेति ।
पवनपित्तहेतकरसविरसजाता जीर्णजन्यामरसासृग्धातुचराद्यदोष उभयलक्षणयुक्तरोगः पवनपित्तप्रकोपज्वरः ॥ ५६ ॥
ननु पवनपित्तज्वरोऽस्तीति सूत्रे अस्तीत्यस्य व्याख्यानं सूत्रव्याख्यानमन्यथा कार्य निदानशास्त्रेऽदृष्टत्वादिति
गम्यते
* अष्टाङ्गानिदानं II--10-18
For Private And Personal Use Only