________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्न:
125
द्वेषस्वादुषु भक्ष्येषु तथा बालेषु तृड्भृशम् । शब्दाग्निशीतवाताम्बुच्छायोष्णेष्वनिमित्ततः ।
इच्छा द्वेषश्च तदनु ज्वरस्य व्यक्तता भवेत् ॥ * विरुखरसादनाजातवरस्यैताह शलक्षणलक्षित्वे ज्ञातव्य इत्यर्थः ।
एकहेतुकृतकार्यस्यैकत्वेऽपि तत्तदोषप्रकोपकारकरसविरसजन्यामवृद्धिभेदजन्यौपाधिकज्वरं व्यपदिशाति-अङ्गेति ।।
अङ्गपीडनमलमार्गातिरोधनातिपीडनधातुमार्गविगमनानिलादनलस्थलचलनादिनाऽनिलज्वरः ।।
सर्वाङ्गानामतिपीडनं करोति । सर्वमलमार्गानतिरुध्य पी. उनं करोति। धातुमार्गगमननिरोधनाभ्यां चारतिजामादिविकारं करोतीत्यर्थः । अत्र निदानवचनं
आगमापगमक्षोभमृदुतावेदनोष्मणाम् । वैषम्य तत्र तत्रा तास्तास्स्युर्वेदनाश्चलाः ॥ पादयोस्सुप्तता स्तम्भः पीण्डिकोद्वेष्टनं श्रमः । विशेष इव सन्धीनां साद ऊर्वोः कटोग्रहः ॥ पृष्ठं क्षोदामवाप्नोत निष्पीड्यत इवोदरम् । छिन्द्यन्त इव चास्थीनि पाङ्गिानि विशेषतः ॥ . हृदयस्य ग्रहस्तोदः प्राजनेनैव वक्षसः । स्कन्धयोर्मथनं बाह्वोः भेदः पीडनमंसयोः ॥ अशक्तिर्भक्षणे हन्वोः जुम्मणं कणयोस्स्वनः । निस्तोदश्शणयोर्मूनि वेदना विरसास्यता ॥ कषायास्यत्वमथवा मुलानामप्रवर्तनम् । * अष्टांगनिदानं I[-6-10. AYURVEDA.
For Private And Personal Use Only