________________
Shri Mahavir Jain Aradhana Kendra
24
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
भवन्तीत्यर्थः । अजीर्णाजातज्वरस्तु अष्टधा, उपहूयत इति यतवयुक्तम्, भेदजनकसामग्रयभावादित्यस्वरसादाह-याहशा इति । यादृशा दोषास्तादृशानिलप्रकोपजातानलास्तादृशा ज्वराः ॥ ५३ ॥
ये दोषप्रकोपहेतुकास्ताद्वरुद्ध र सजातास्तज्जन्यदोषाः पाचकपित्तादिपञ्चप्रकाराः ते स्वस्थानच्युता बहुविधरूपा भवन्तीत्यर्थः । तत्र वचनं
विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ *
तद्विरुद्धलक्षणज्ञापक हेतुभेदप्रदर्शनेन सत्यवच्छेद के ज्ञाते सति एक एव ज्वरः कार्यभेदेन नानारूपो भवतीति वक्तुं शक्यते । तलक्षणं ज्ञातं सत् तत्तद्भेदोऽपि ज्ञातुं शक्यत इत्यस्वरसादाहअक्षति ।
अक्षिकर्णनासाशिरोरुग्विदाहजिह्वास्यशोषकु
क्ष्यो ज्वलयन् ज्वलति ॥ ५४ ॥
अक्षिकर्णानासादिषु तथा शिरोव्यथा, जिह्वाया विदाहः, आस्यशोषः । कुक्ष्य इति अन्तस्तापः । आपादमस्कं ज्वलनात् ज्वलति स ज्वर इत्यर्थः । तत्र निदानवचनं
तस्य प्रापमालस्यमरतिर्गात्रगौरवम् । आस्यवैरस्य मरुचिर्जुम्भा साखाकुलाक्षता ॥ अङ्गामर्दोऽविपाकोऽल्पप्राणता बहुनिद्रता । रोमहर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः || हितोपदेशेष्वक्षान्तिः प्रीतिरम्लपटूषणे ।
* अष्टाङ्गनिदानम् II; 2.
"
For Private And Personal Use Only