________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमंप्रश्नः
23
जन्यरसेन धातुं व्यापकं कर्तुं असमर्था भवतीति कृत्वा तस्माकला अबला भवतीत्यर्थः । तत्र सूत्रवचनं
मिश्नं पथ्यमपथ्यं च भुक्तं समशनं मतम् । . विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् ॥ अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम् । त्रीण्यप्येतानि मृत्यु वा घोरान्वयाधीन्सृजन्ति वा* ॥ एवमादिकारणेन कला अबला भवतीत्यर्थः । तदेव विरुद्धाहार इत्युच्यते । कला अबला सती अन्नं न पचति । से रोगोऽष्टप्रकारो भवति । नानाविधकार्योत्पादकसामग्रीभेदेन अजीर्णप्रधानाङ्गत्वेन ज्वरोपद्वाः तद्भेदा भवन्तीत्याह-आमेति।
आमाशयातिपूर्णात् कलाऽबलादामाशयस्थितपवनगतितिरोधानादनिलप्रकोपोहि भवति ॥ .. कला दौर्बल्यात् “अजीर्णेन विना न ज्वरः" इति ज्वराः आविर्भवन्तीत्यर्थः । अत्र निदानवचन
स जायतेऽष्टधा दोषैः पृथमित्रैस्समागतैः। . आगन्तुच मलास्तत्र स्वैस्स्वैर्दुष्टाः प्रदूषणैः ॥ , आमाशयं प्रविश्याममनुगम्य पिधाय च।। स्रोत्रांसि पङ्किस्थानाच निरस्य ज्वलनं बहिः ॥ सह तेनाभिसर्पन्तस्तपन्तस्सकलं वपुः । कुर्वन्तो गात्रमत्युष्णं ज्वरं निवर्तयन्ति ते ॥
स. ज्वर एकोऽपि ज्वरोपद्रवकारकहेतवो नानारूपा भवन्ति । तस्मात् नराश्वपशुगजादिषु बहुरूपा भवन्तीत्यर्थः । तत्तजातिविधिविहितानादनादजीर्णाजातज्वराः तदुपद्रवभेदेन अष्टधा
* अष्टाङ्ग सूत्रं VIII--33-34. । अष्टाङ्गनिदानम्. II. 3-5.
For Private And Personal Use Only