________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
तन्मूलास्ते हि तद्धिक्षयवृद्धिक्षयात्मकाः । . तस्मात्तं विधिवद्युक्तैरनपानौदनैहितैः।
पालयेत्प्रयतस्तस्य स्थिती ह्यायुर्बलस्थितिः * ॥ इत्यादिवचनानि बहूनि सन्ति । कुण्डल्युत्थितश्वासानिलानलचक्रजातपित्तोद्भवत्वादेव कलाज्वलने शिखिपदं प्रसिद्धम् । कुण्डलिनी अनलानिलात्मिका । तस्याः पित्तमस्तीति सफलमतसिद्धम् । सा कला ज्वलनकला । सा देहं दहतीति यत्तदयुक्तम् । यावद्भुक्तानं सारकिट्टतया विभज्य दन्दह्यते । अन्नपचनकार्यमात्रपर्वत्वेन कुण्डलिन्युद्भवश्वासानिलस्यैव दहनरूपकर्मप्रतिपादकत्वम् । तत्सर्वशरीरान्तस्स्थितं सत् जीवनोपकारं करोतीत्यर्थः । .
. ननु ग्रहणीकला आयुस्तेजो दधातीति यदुक्तं तन्न युक्तम् । हितमितानादनमेव शरीरदायरूपधारणं च करोति । तद्यथा पथ्याथ्यविधि विज्ञाय अन्नपानादने सति तुष्टिः पुष्टिश्च भवति । तदभाव कार्य प्रतीयते । तस्मादेतयोरेव अन्वयव्यतिरेकाभ्यां कार्यकारणभावः । अन्नादनस्य निग्राहके रोगे सति स एव तदिति चेत् तैलादिना देहलेपनद्वारा धातुपुष्टिमिन्द्रियप्रदा कुर्यादित्यस्वरसादाह-भक्तमिति. ।
भक्तादनेनामाशयातिरोधनात् कलाऽबला भवति ॥५१॥
भक्तमन्नम् । अन्नादनेनामाशयेऽतिपूर्णे सति कुण्डलिनीस्थितपित्तकला अबला भवन्ती सती अन्नादनाजातपाककृत
* अष्टाङ्गसूत्रं III-70-72
For Private And Personal Use Only