________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्न:
17
प्रयोजकमिति तत्सर्व सङ्गहीतम् । एवं पुरुषार्थोपपादितो वेदितव्य इत्याह-य इति। य एवं वेद ॥ ३५ ॥
एवमुक्तप्रकारेण ज्ञातव्य इत्यर्थः । एतावता निव-निवर्तकज्ञानं जातम् । तावता उत्तमपुरुषाथरूपफलं कथं लभ्यते इत्यत आह-सेति ।
स चिरायुर्भवति ॥ ३६ ॥
ननु निवर्तका लोके बहवस्सन्ति । एकदा सर्वविषयकपदार्थशानं सम्पादनीय, सर्वशरीराणां निवर्तकशानं परमपुरुषार्थ इत्यर्थः । एतत्पदार्थज्ञानानन्तरं ज्ञानविषयककार्यकारणचिरकालजीवितस्य पुरुषार्थ उपलभ्यते ।
पतज्ज्ञानविषयकशानमेव भेषजं भवतीत्याह-तदिति । तदेव भेषजम् ॥ ३७॥ भेषजशानानन्तरं चिकित्साकर्म व्याचले-सेति । सैव चिकित्सा ॥३०॥
नराश्वगजादिशरीराणां नानाविधरोगास्सम्भवन्ति । तानवर्तकानि वृक्षलतादियोग्यद्रव्याण षड्रसात्मकपदार्थोपकारकाणि । आयुर्वेदप्रतिपादितार्थमालोकनं कुर्यादित्याह -तावदिति ।
तावद्दव्यावलोकनं कुर्यात् ॥ ३९ ॥
दोषप्रकोपाभावकार्यहेतुभूतधातुदूषकयावाविषयगोचरेन्द्रियाभिवर्धकद्रव्यावलोकनं कुर्यात् ।
षड्रसात्मकद्रव्याणि व्याचष्टे-रसा इति । AYURVEDA.
For Private And Personal Use Only