________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
पाड्गुण्यमुपयुश्चति शक्तयपेक्षा रसायनम् ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवम्ति च ॥ * इतः परं शारीरविषयकयोगक्रमविधि प्रतिपादयिष्याम इत्युक्तम् । इदानीमिष्टप्राप्तिरूपफलं वक्तं "आयुष्कामयमानो यो. गं कुर्यात्" इति यत्प्रतिपादितं, 'सर्वजने दुष्कृतमिति' तत्तह. रितबाहुळ्याहुःखदोऽयमिति आशयवान् सूत्रान्तरमाह-कायेति । __कायकालाधिकाले चरमधातुप्रवर्धकरसवव्यै
जीकरणं कुर्यात् ॥३४॥ ___ रसायनं च सेवेत धातुपुष्टीन्द्रियप्रदम् । इति वचनात् ।
+ यावद्वर्गोत्तमद्रव्यैर्यत्प्रधानप्रमातिताः ।
तावदसा विरुद्धापूः तद्रसायनमीरितम् ?॥ इति रसायनलक्षणम् । रसायनविधी कर्मविधी क्रमः रनवर्गोक्तद्रव्येषु वज्रस्य रसद्रव्यत्वात् स श्रेष्ठो भवति । मणिवर्गोक्तद्रव्येषु कान्तमणिः रसद्रव्यत्वात् श्रेष्ठो भवति । पाषाणवर्गेषु रसवहव्यत्वादभ्रकस्य श्रेष्ठत्वम् । सत्ववद्दव्यवर्गेषु भूनागसत्वस्य रसवदव्यत्वात् श्रेष्ठत्वं भवति । रसबद्दव्योपाधिकभेदद्रव्येषु रसे. न्द्रस्य रसवव्यत्वात् श्रेष्ठत्वं भवति। संस्कारादिकर्मसु बीजकर्मकरणस्य रसवदव्यत्वात् । श्रेष्ठत्वं भवति । अत्र 'चिरायुरिच्छाप्रवृत्तिविषय आयुवेदार्थपुरुषार्थोपपादिका' इति प्रयोजन तथा किकस्य कार्यकारणभावक्षानं तत्तद्विषयकज्ञानगोचरज्ञानं
* माघकाव्यम् ||-93.
+ दुष्परिकरोऽयं श्लोकः.
For Private And Personal Use Only