________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्नः
15
तन्निवर्तका इति बहुजातरुङ्नितिका न भवन्तोत्यर्थः । दोषहेतु. कास्ते च रुजो. धातुविनाशकाः । तन्निवर्तकप्रकारकाः औषधादयः । अत्र वचनं.---
नावनाञ्जनपानेषु योजयद्विषशान्तये । विषभुक्ताय दद्याश्च शुद्धायोर्ध्वमधस्तथा ॥ सूक्ष्म ताम्ररजःकाले सक्षौद्रं हृद्विशोधनम् । शुद्ध हृदि ततश्शाणं हेमचूर्णस्य दापयेत् ।
न सजते हेमपाङ्गे पनपत्रेऽम्बुवद्विषम् ॥ * इति वचनात् ।
अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः।। योगक्षेमा तदायत्तौ धर्माद्या यन्निबन्धनाः ॥ इति वचनान्तरेणापि सूत्रार्थो ज्ञाप्यत इति ब्याधिहेतुकद्रव्यादनाजातरोगाणां तनिवर्तकौषधयोगवशाद्वथाधिनिवृत्तिरेव फलमिति अनिष्टपरिहारार्थमपि फलप्रवृत्तेदृ ष्टत्वात् स्वस्थानाभिवर्धकसर्वभोक्तृत्व कथं स्यादित्यत आह -प्रकाशमानेति ।
प्रकाशमानप्रथमप्रयाणाधिगतनिस्सृतामृतप्रतिप्रयाणाहृतयोगविभागधातुपोषकसुरसादनादरोगवानजरः ॥३३॥
अग्निजस्वरूपकुण्डल्युद्भवश्वासानिलजातेनोमणा प्रकाशमानस्सन् प्रथमप्रयाणादुत्थितसहस्रकमलादागतामृतमाहत्य यथायोग सप्तधातून्सन्तर्प्य यो योगं करोति स चिरायुर्भवति । शुद्धरसादनाच फलं भवतीति अजरत्वं सुप्रसिद्धमित्यर्थः । अत्र कविवाक्यं
* अष्ठाङ्गसूत्रम् VI[--26-28 + अष्टाङ्गसूत्रम् VII-2.
For Private And Personal Use Only