________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमप्रश्न:
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वोक्तरीत्या देहस्य अनामयत्वं सम्पाद्य आत्ममनननिदिध्यासनयोगेन परमसुखं जीवोऽनुभवति । तत्र वचनं
क्रमेणोपचिता दोषाः क्रमेणोपचिता गुणाः । गता ये च पुनर्भाव अप्रकम्पया भवन्ति च ॥ अनामय कार्यकरणेन अरोगो भवन् स्वर्गसुखमेवानुभवतीत्यथेः । एवमुक्तरीत्या देहस्य अनामयत्वं साधितम् । तावता आत्ममननसामग्री न प्रतिवादिता । किं अरोगवान्भवतीति दृढतरजठरानलवशत्वेन सर्वेन्द्रियाणां सर्वविषयभोक्तृत्वं साधितम् ? अनामयत्वमात्ममननसामग्री मात्रजन्यत्वं न भवतीत्यस्वरसादाहअहमिति ।
अहम्प्रत्ययः कर्मकर्ता ॥ १३ ॥
अहंकाराधिष्ठितमात्रं रक्तोऽहं श्यावोऽहं इति प्रत्ययविषयक - महामति ज्ञानम् । तथा ज्ञानवानहमिति अनुव्यवसायेन ज्ञातुं शक्तः सत्कर्माधिकारी भवेत् । सुकर्मणा आत्ममननं कर्तुं शक्यत इति । कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
इति धर्मविषय कज्ञानगोचरत्वेन परब्रह्मणः मनोविषयकज्ञानगोचरत्वं सिध्यति । अधिष्ठानभूतोऽयमात्मा, यस्सिध्यति स एव जीवात्मा । तावुभौ शरीराधिष्टितावेव । तयोरन्यस्य सर्वभोक्तृत्वं व्यपदेष्टुमाह-स्थानेति ।
स्थानवानहंकारी ॥ १४ ॥
परमात्मनामधिष्ठानरूपत्वं नोपपद्यते । तज्जोवात्मनां सम्भवर्तात्याशयवानाहत्यर्थः । यस्य यावत्कालो योगश्चराते तस्य अरोगित्वस्य स्वतस्सिद्धत्वादित्यत आह-यावदिति ॥
For Private And Personal Use Only